षष्ठं मण्डलम् - सूक्तम् 7

7 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: वैश्वानरोग्निः छन्दः: त्रिष्टुप्

सूक्तम् 6.7 - सम्पूर्णम्

1 / 7
ऋक्: 6.7.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
6.7.1 समानपद
मू॒र्धानं᳚ दि॒वो अ᳚र॒तिं पृ᳚थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विं स॒म्राज॒मति᳚थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
मू॒र्धान᳚म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।
क॒विम् । स॒म्॑राजम् । अति᳚थिम् । जना᳚नाम् । आ॒सन् । आ । पात्र᳚म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मूर्धानं शिरोभूतं कस्य दिवोद्युलोक्य पृथिव्याः प्रथितायाभूमेः अरतिं गन्तारं बन्धिनं यद्वा गन्तव्यंस्वामिनं वैश्वानरंविश्वेषांनराणां- संबन्धिनं ऋते ऋतमितिसत्यस्ययज्ञस्यवानामनिमित्तसप्तम्येषा ऋतनिमित्तं आ आभिमुख्येन जातं सृष्ट्यादावुत्पन्नं कविं क्रान्तदर्शिनं सम्राजं सम्यग्राजमानं जनानां यजमानानामतिथिंहविर्वहनायसततंगन्तारं यद्वा अतिथिवत्पूज्यंआसन् आसनि आस्ये द्वितीयार्थेसप्तमी आस्यभूतअग्निलक्षणेनास्येनहिदेवाहवींषिभूञ्चते पात्रं पातारंरक्षकं यद्वा आस्येनधारकमेवंगुणविशिष्टंवैश्वानराग्निं देवाः स्तोतारऋत्विजः देवाएववाआजनयन्त यज्ञाभिमुख्येनाजीजनन् अरण्योःसकाशात् उदपादयन् ॥ १ ॥

6.7.2
नाभिं᳚ य॒ज्ञानां॒ सद᳚नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न᳚वन्त ।
वै॒श्वा॒न॒रं र॒थ्य᳚मध्व॒राणां᳚ य॒ज्ञस्य᳚ के॒तुं ज᳚नयन्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
नाभि᳚म् । य॒ज्ञाना᳚म् । सद᳚नम् । र॒यी॒णाम् । म॒हाम् । आ॒॑हा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ ।
वै॒श्वा॒न॒रम् । र॒थ्य᳚म् । अ॒ध्व॒राणा᳚म् । य॒ज्ञस्य᳚ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञानां ज्योतिष्टोमादियागानां नाभिं नहनं बन्धकं तथा रयीणांधनानां सदनं स्थानमेकनिलयं महां महान्तमाहावंआहूयन्तेस्मिन्नाहु- तयइत्याहावः तादृशं यद्वा वृष्ट्युदकधारणं आहावं निपानस्थानीयमेवंभूतमग्निं अभि अभितः सन्नवन्तः स्तोतारःसम्यक्स्तुवन्ति तथावै- श्वानरं विशेषांनराणांसंबन्धिनं अध्वराणां यज्ञानां रथ्यं रथिनं यथारथीस्वरथंनयति तद्वन्नेतारं ग्राहयितारं गमयितारं यज्ञस्यकेतुं प्रज्ञापकं एवंविधमग्निं देवाः स्तोतारऋत्विजोदेवाएववा जनयन्त जनयन्ति मन्थनेनोत्पादयन्ति ॥ २ ॥

6.7.3
त्वद्विप्रो᳚ जायते वा॒ज्य᳚ग्ने॒ त्वद्वी॒रासो᳚ अभिमाति॒षाहः᳚ ।
वैश्वा᳚नर॒ त्वम॒स्मासु᳚ धेहि॒ वसू᳚नि राजन्त्स्पृह॒याय्या᳚णि ॥
▶ पदपाठः (Word-by-word)
त्वत् । विप्रः᳚ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः᳚ । अ॒भि॒मा॒ति॒॑सहः᳚ ।
वैश्वा᳚नर । त्वम् । अ॒स्मासु᳚ । धे॒हि॒ । वसू᳚नि । रा॒ज॒न् । स्पृ॒ह॒याय्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने वाजी हविर्लक्षणान्नवान्पुरुषः त्वत् त्वत्तःसकाशात् विप्रोमेधावीजायते तुभ्यंहविर्दानेनमेधावीभवति तथा वीरासोवीराः त्वत् त्वत्तः अभिमातिषाहः अभिमातीनांशत्रूणांअभिभवितारोजायन्ते यस्मादेवंतस्मात् हेवैश्वानर राजन् राजमानाग्ने त्वमस्मासु त्वद्भक्तेषु स्पृहयाय्याणि स्पृहणीयानि वसूनि धनानि धेहि निधेहि ॥ ३ ॥

6.7.4
त्वां विश्वे᳚ अमृत॒ जाय᳚मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न᳚वन्ते ।
तव॒ क्रतु᳚भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒ यत्पि॒त्रोरदी᳚देः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । विश्वे᳚ । अ॒मृ॒त॒ । जाय᳚मानम् । शिशु᳚म् । न । दे॒वाः । अ॒भि । सम् । न॒व॒न्ते॒ ।
तव᳚ । क्रतु᳚॑भिः । अ॒मृ॒त॒॑त्वम् । आ॒य॒न् । वैश्वा᳚नर । यत् । पि॒त्रोः । अदी᳚देः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअमृत मरणधर्मरहिताग्ने विश्वेसर्वेदेवाः स्तोतारः जायमानं अरण्योः सकाशादुत्पद्यमानं त्वां शिशुंन पुत्रमिव अभिसन्नवन्तेअभिसं- स्तुवन्ति यद्वा दीव्यन्तिइतिदेवारश्मयः तेसर्वेजायमानंत्वां अभिसन्नवन्ते अभि संगच्छन्ते यथापितरः पुत्रमभिगच्छन्ति अपिच हेवैश्वा- नराग्ने यद्यदा पित्रोः पालयित्र्योर्द्यावापृथिव्योर्मध्ये अदीदेः दीप्यसे तदानीं तव त्वदीयैः क्रतुभिः कर्मभिः ज्योतिष्टोमादिभिर्यागैः अमृत- त्वं देवत्वं आयन् यजमानाःप्राप्नुवन्ति ॥ ४ ॥

6.7.5
वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि᳚ म॒हान्य᳚ग्ने॒ नकि॒रा द᳚धर्ष ।
यज्जाय᳚मानः पि॒त्रोरु॒पस्थे॑वि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
वैश्वा᳚नर । तव᳚ । तानि᳚ । व्र॒तानि᳚ । म॒हानि᳚ । अ॒ग्ने॒ । नकिः᳚ । आ । द॒ध॒र्ष॒ ।
यत् । जाय᳚मानः । पि॒त्रोः । उ॒प॑स्थे᳚ । अवि᳚न्दः । के॒तुम् । व॒युने᳚षु । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवैश्वानर विश्वेषांनराणांसंबन्धिन्नग्ने तव त्वदीयानि तानि प्रसिद्धानि व्रतानि कर्माणि महानि महान्ति नकिरादधर्ष नकश्चनान्योध- र्षयति बाधते यद्यदा त्वं पित्रोर्द्यावापृ थिव्योरुपस्थे उपस्थानेन्तरिक्षे वयुनेषु गन्तव्येषुमार्गेषु जायमानः सन् अह्नांकेतुं प्रज्ञापकंसूर्यं स्वर्भानुनावृतं अविन्दः अलम्भयः तमोरूपमसुरं स्वतेजसानिवारयन् अस्थापयइत्यर्थः तदा तानिव्रतानीति पूर्वत्रान्वयः ॥ ५ ॥

6.7.6
वै॒श्वा॒न॒रस्य॒ विमि᳚तानि॒ चक्ष᳚सा॒ सानू᳚नि दि॒वो अ॒मृत᳚स्य के॒तुना᳚ ।
तस्येदु॒ विश्वा॒ भुव॒नाधि᳚ मू॒र्धनि᳚ व॒या इ᳚व रुरुहुः स॒प्त वि॒स्रुहः᳚ ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रस्य᳚ । वि॑मि᳚तानि । चक्ष᳚सा । सानू᳚नि । दि॒वः । अ॒मृत᳚स्य । के॒तुना᳚ ।
तस्य᳚ । इत् । ऊं॒ इति᳚ । विश्वा᳚ । भुव᳚ना । अधि᳚ । मू॒र्धनि᳚ । व॒याः॑इ᳚व । रु॒रु॒हुः॒ । स॒प्त । वि॒॑स्रुहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैश्वानरस्य विश्वनरहितस्याग्नेः चक्षसा तेजसा अमृतस्योदकस्य केतुना प्रज्ञापकेन दिवोद्युलोकस्य सानूनि समुच्छ्रितस्थलानि नक्षत्र- रूपाणि विमितानि निर्मितानि यद्वा दिवोन्तरिक्षस्यसानूनि समुच्छ्रितप्रदेशाःमेघात्मकाः विमितानि निर्मिताः धूमविकारत्वात्तेषां तस्येदु तस्यैववैश्वानरस्य मूर्धनि मूर्धस्थानीयेउपरिवर्तमानेधूमे मेघात्मना परिणते विश्वा विश्वानि व्याप्तानि भुवना भुवनान्युदकानि अधिवसन्ति यद्वा वैश्वानरात्मकस्यपरब्रह्मणोमूर्धनि उपरिप्रदेशे सर्वाणिभूतजातान्यधिवसन्ति तथावयाः शाखाइव सप्तसर्पणशीलाः सप्तसंख्यावा विस्रुहोनद्यश्च गङ्गाद्यारुरुहुः रोहन्ति अस्मादेववैश्वानरात् प्रादुर्भवन्ति आहुतिद्वारासकलंजगत् अग्नेः सकाशाद् त्पद्यते- इत्यर्थः ॥ ६ ॥

6.7.7
वि यो रजां॒स्यमि᳚मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः ।
परि॒ यो विश्वा॒ भुव᳚नानि पप्र॒थे॑द᳚ब्धो गो॒पा अ॒मृत᳚स्य रक्षि॒ता ॥
▶ पदपाठः (Word-by-word)
वि । यः । रजां᳚सि । अमि᳚मीत । सु॒॑क्रतुः᳚ । वै॒श्वा॒न॒रः । वि । दि॒वः । रो॒च॒ना । क॒विः ।
परि᳚ । यः । विश्वा᳚ । भुव᳚नानि । प॒प्र॒थे । अद᳚ब्धः । गो॒पाः । अ॒मृत᳚स्य । र॒क्षि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्रतुः सुकर्मा वैश्वानरः विश्वेषांनराणांहितोयोग्निः रजांस्युदकानि लोकावा व्यमिमीत निर्मितवान् तथा दिवोद्युलोकस्यसंबन्धीनि रोचना रोचमानानि दीप्यमानानि नक्षत्रादीनि कविः क्रान्तदर्शीसन् योग्निर्व्यमिमीत यश्च विश्वा सर्वाणि भुवनानि भूतजातानि व्या- प्तान्युदकानिवा परिपप्रथे परितोप्रथयत् सोयमदब्धः केनाप्यहिंसितः गोपाः सर्वस्यगोपायितारक्षिता अमृतस्य अमरणहेतोरुदकस्यर- क्षिता पालयितासन् वर्ततइतिशेषः ॥ ७ ॥

पृक्षस्येतिसप्तर्चमष्टमंसूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकं आद्याःषड्जगत्यः सप्तमीत्रिष्टुप् तथाचानुक्रान्तम्-पृक्षस्यान्त्यात्रिष्टुबि- ति । चातुर्विंशिकेहन्याग्निमारुतेइदंसूक्तं वैश्वानरीयनिविद्धानं सूत्रितंच-पृक्षस्यवृष्णोवृष्णेशर्धायेति । आभिप्लविकेपृष्ठ्याभिप्लवषडह- योः पञ्चमेहनिइदमेवसूक्तंवैश्वानरनिविद्धानं सूत्रितंच-पृक्षस्यवृष्णोशर्धायनूचित्सहोजाइत्याग्निमारुतमिति । विषुवत्यग्निमारुते आद्यौ- तृचौस्तोत्रियानुरूपौ सूत्रितंच-पृक्षस्यवृष्णोअरुषस्यनूसहइतिस्तोत्रियानरूपाविति ।