त्वद्विप्रो᳚ जायते वा॒ज्य᳚ग्ने॒ त्वद्वी॒रासो᳚ अभिमाति॒षाहः᳚ ।
वैश्वा᳚नर॒ त्वम॒स्मासु᳚ धेहि॒ वसू᳚नि राजन्त्स्पृह॒याय्या᳚णि ॥
वैश्वा᳚नर॒ त्वम॒स्मासु᳚ धेहि॒ वसू᳚नि राजन्त्स्पृह॒याय्या᳚णि ॥
पदपाठः (Word-by-word)
त्वत् । विप्रः᳚ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः᳚ । अ॒भि॒मा॒ति॒॑सहः᳚ ।
वैश्वा᳚नर । त्वम् । अ॒स्मासु᳚ । धे॒हि॒ । वसू᳚नि । रा॒ज॒न् । स्पृ॒ह॒याय्या᳚णि ॥
वैश्वा᳚नर । त्वम् । अ॒स्मासु᳚ । धे॒हि॒ । वसू᳚नि । रा॒ज॒न् । स्पृ॒ह॒याय्या᳚णि ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने वाजी हविर्लक्षणान्नवान्पुरुषः त्वत् त्वत्तःसकाशात् विप्रोमेधावीजायते तुभ्यंहविर्दानेनमेधावीभवति तथा वीरासोवीराः त्वत् त्वत्तः अभिमातिषाहः अभिमातीनांशत्रूणांअभिभवितारोजायन्ते यस्मादेवंतस्मात् हेवैश्वानर राजन् राजमानाग्ने त्वमस्मासु त्वद्भक्तेषु स्पृहयाय्याणि स्पृहणीयानि वसूनि धनानि धेहि निधेहि ॥ ३ ॥