श्रवणम्

6.7.1 समानपद
मू॒र्धानं᳚ दि॒वो अ᳚र॒तिं पृ᳚थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विं स॒म्राज॒मति᳚थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
मू॒र्धान᳚म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।
क॒विम् । स॒म्॑राजम् । अति᳚थिम् । जना᳚नाम् । आ॒सन् । आ । पात्र᳚म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मूर्धानं शिरोभूतं कस्य दिवोद्युलोक्य पृथिव्याः प्रथितायाभूमेः अरतिं गन्तारं बन्धिनं यद्वा गन्तव्यंस्वामिनं वैश्वानरंविश्वेषांनराणां- संबन्धिनं ऋते ऋतमितिसत्यस्ययज्ञस्यवानामनिमित्तसप्तम्येषा ऋतनिमित्तं आ आभिमुख्येन जातं सृष्ट्यादावुत्पन्नं कविं क्रान्तदर्शिनं सम्राजं सम्यग्राजमानं जनानां यजमानानामतिथिंहविर्वहनायसततंगन्तारं यद्वा अतिथिवत्पूज्यंआसन् आसनि आस्ये द्वितीयार्थेसप्तमी आस्यभूतअग्निलक्षणेनास्येनहिदेवाहवींषिभूञ्चते पात्रं पातारंरक्षकं यद्वा आस्येनधारकमेवंगुणविशिष्टंवैश्वानराग्निं देवाः स्तोतारऋत्विजः देवाएववाआजनयन्त यज्ञाभिमुख्येनाजीजनन् अरण्योःसकाशात् उदपादयन् ॥ १ ॥