षष्ठं मण्डलम् - सूक्तम् 43

4 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 6.43 - सम्पूर्णम्

1 / 4
ऋक्: 6.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
6.43.1
यस्य॒ त्यच्छम्ब᳚रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः᳚ ।
अ॒यं स सोम᳚ इन्द्र ते सु॒तः पिब᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्यत् । शम्ब᳚रम् । मदे᳚ । दिवः᳚॑दासाय । र॒न्धयः᳚ ।
अ॒यम् । सः । सोमः᳚ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यस्यसोमस्यमदेपानेनजनितेहर्षेसति शंबरमसुरं दिवोदासायराज्ञेरंधयः अहिंसीः यद्वा वशीकृतवानसि रध्यतिर्वशगमनइति- यास्कः । त्यदितिक्रियाविशेषणं त्यत्तत्प्रसिद्धं यथा भवतितथाअरन्धयइत्यर्थः हेइन्द्र सोयंसोमस्तेत्वदर्थंसुतोभिषुतः अतस्तंपिब ॥ १ ॥

6.43.2
यस्य᳚ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष᳚से ।
अ॒यं स सोम᳚ इन्द्र ते सु॒तः पिब᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ती॒व्र॒॑सुत᳚म् । मद᳚म् । मध्य᳚म् । अन्त᳚म् । च॒ । रक्ष᳚से ।
अ॒यम् । सः । सोमः᳚ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंयस्यसोमस्यअवयवभूतंतीक्ष्णंसुतमभिषवोयस्यसतीव्रसुतः प्रातःसवनिकः तंमदंमदकरंसोमरसं मध्यं मध्यंदिनसवनगतं अंतं तृतीयसवनगतंचसोमरसं रक्षसे रक्षसि सोयंसोमस्त्वदर्थमभिषुतस्तंपिबेति ॥ २ ॥

6.43.3
यस्य॒ गा अ॒न्तरश्म᳚नो॒ मदे᳚ दृ॒ळ्हा अ॒वासृ᳚जः ।
अ॒यं स सोम᳚ इन्द्र ते सु॒तः पिब᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । गाः । अ॒न्तः । अश्म᳚नः । मदे᳚ । दृ॒ळ्हाः । अ॒व॒॑असृ᳚जः ।
अ॒यम् । सः । सोमः᳚ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यसोमस्यमदेमदकरेरसेपीतेसति अश्मनः बलासुरेणनिहितस्यपर्वतस्यअन्तर्मध्येविद्यमानाः दृह्ळाः दृढपिधानाश्चगाःपणिभिरप- हृताः अवासृजः बलस्यबन्धनाद्भ्यसृजः ससोमइत्यादिगतं ॥ ३ ॥

6.43.4
यस्य᳚ मन्दा॒नो अन्ध᳚सो॒ माघो᳚नं दधि॒षे शवः᳚ ।
अ॒यं स सोम᳚ इन्द्र ते सु॒तः पिब᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । म॒न्दा॒नः । अन्ध᳚सः । माघो᳚नम् । द॒धि॒षे । शवः᳚ ।
अ॒यम् । सः । सोमः᳚ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंयस्यअन्धसः सोमलक्षणस्यान्नस्यपानेनमन्दानोमंदमानः हृष्टःसन् माघोनंऐन्द्रंशवः असाधारणंबलं दधिषे धारयसि येनसोमेन तवेन्द्रत्वंजातमित्यर्थः सोयंसोमः सुतोभिषुतस्तंपिब ॥ ४ ॥

चतुर्थेनुवाकेषट् सूक्तानि तत्रयोरयिवइतिचतुर्विंशत्यृचंप्रथमंसूक्तं बृहस्पतिपुत्रस्यशंयोरार्षं ऎन्द्रं आदितःषळनुष्टुभः सप्तम्यष्टमीनव- म्योविराजः अष्टम्येकैववाविराट् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—योरयिवश्चतुर्विंशतिः शंयुर्बार्हस्पत्योह्यादौषळनुष्टुभस्तिस्रश्चविराजो- मध्यमैववासामिति । गतः सूक्तविनियोगः ।