षष्ठं मण्डलम् - सूक्तम् 23

10 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.23 - सम्पूर्णम्

1 / 10
ऋक्: 6.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
6.23.1 समानपद
सु॒त इत्त्वं निमि᳚श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म᳚णि श॒स्यमा᳚न उ॒क्थे ।
यद्वा᳚ यु॒क्ताभ्यां᳚ मघव॒न्हरि᳚भ्यां॒ बिभ्र॒द्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒ते । इत् । त्वम् । नि॑मि᳚श्लः । इ॒न्द्र॒ । सोमे᳚ । स्तोमे᳚ । ब्रह्म᳚णि । श॒स्यमा᳚ने । उ॒क्थे ।
यत् । वा॒ । यु॒क्ताभ्या᳚म् । म॒घ॒॑व॒न् । हरि᳚॑भ्याम् । बिभ्र᳚त् । वज्र᳚म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमेसुतेइत् अभिषुतएव सति ब्रह्मणि बृहति महति स्तोत्रे उच्चार्यमाणेसति उक्थेशस्त्रे शस्यमानेसति हेइन्द्र त्वं निमिश्लः निमिश्लः सन् हरी संयोजयन् हेमघवन् धनवन्निन्द्र त्वं बाह्वोर्हस्तयोर्वज्रंस्वकीयमायुधं बिभ्रत् धारयन् युक्ताभ्यं रथेनियुक्ताभ्यां हरिभ्यामश्वा- भ्यां यासि यद्वा आगच्छसीति यच्च तत्सोमेभिषुतइतिसंबन्धः ॥ १ ॥

6.23.2 समानपद
यद्वा᳚ दि॒वि पार्ये॒ सुष्वि᳚मिन्द्र वृत्र॒हत्ये॑व᳚सि॒ शूर᳚सातौ ।
यद्वा॒ दक्ष᳚स्य बि॒भ्युषो॒ अबि᳚भ्य॒दर᳚न्धय॒ः शर्ध᳚त इन्द्र॒ दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । दि॒वि । पार्ये᳚ । सुस्वि᳚म् । इ॒न्द्र॒ । वृ॒त्र॒॑हत्ये᳚ । अव᳚सि । शूर᳚॑सातौ ।
यत् । वा॒ । दक्ष᳚स्य । बि॒भ्युषः᳚ । अबि᳚भ्यत् । अर᳚न्धयः । शर्ध᳚तः । इ॒न्द्र॒ । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं दिवि द्युलोके शूरसातौ शूरैर्भटैःसंभजनीये वृत्रहत्ये युद्धेच पार्ये प्राप्तव्ये सति सुष्विमभिषोतारं यजमानं अवसि यद्वा रक्षसीति यच्चवेतिसमुच्चये दक्षस्य यज्ञादिषुसमर्थस्य बिभ्युषः शत्रुभ्योबिभ्यतोजनस्य शर्धतः संग्रामेउत्सहमानान् दस्यूनुपक्षपयितॄन्- शत्रून् हेइन्द्र त्वं अबिभ्यद्भीतिरहितःसन् अरन्धयः यद्वा वशीकरोषीति यच्चतत्सर्वं सोमेभिषुतइतिपूर्वेणसंबन्धः तथाचोक्तं यद्बाह्वो- र्धारयन्वज्रंहरिभ्यांयासिवृत्रहन् ॥ यच्चरक्षतिसंग्रामेनॄन् सोममभिषुण्वतः ॥ यच्चकर्मसुदक्षस्ययजमानस्यापारयः ॥ वशीकरोषितांतस्मै- बिभ्यतेभीतिवर्जितः ॥ तत्सोमेभिषुतेस्तोत्रशस्त्रयोश्चप्रवृत्तयोः ॥ इतिद्वृचोयमेकार्थःसुतइत्त्वमितिद्वयंइति ॥ २ ॥

6.23.3
पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज᳚रि॒तार᳚मू॒ती ।
कर्ता᳚ वी॒राय॒ सुष्व᳚य उ लो॒कं दाता॒ वसु᳚ स्तुव॒ते की॒रये᳚ चित् ॥
▶ पदपाठः (Word-by-word)
पाता᳚ । सु॒तम् । इन्द्रः᳚ । अ॒स्तु॒ । सोम᳚म् । प्र॒॑ने॒नीः । उ॒ग्रः । ज॒रि॒तार᳚म् । ऊ॒ती ।
कर्ता᳚ । वी॒राय᳚ । सुस्व᳚ये । ऊं॒ इति᳚ । लो॒कम् । दाता᳚ । वसु᳚ । स्तु॒व॒ते । की॒रये᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः सुतमभिषुतंसोमं पातास्तु पानशीलोभवतु तृन्नन्तत्वान्नलोकाव्ययनिष्ठेतिषष्ठीप्रतिषेधार्थः कीदृशः ऊती ऊत्यामार्गेण जरितारं स्तोतारं प्रणेनीः प्रकर्षेणनेता उग्रः उद्गूर्णः वीराय यज्ञादिकर्मसुदक्षाय सुस्वये सोमाभिषवंकुर्वतेयजमानाय लोकं स्थानं कर्तादातेत्यर्थः उइतिपादपूरणः स्तुवेत स्तोत्रंकुर्वते कीरयोचित् चिदितिचार्थेस्तोत्रेच कीरिरितिस्तोतृनामैतत् वसु धनंदातास्तु ॥ ३ ॥

6.23.4
गन्तेया᳚न्ति॒ सव᳚ना॒ हरि᳚भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः ।
कर्ता᳚ वी॒रं नर्यं॒ सर्व᳚वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम᳚वाहाः ॥
▶ पदपाठः (Word-by-word)
गन्ता᳚ । इय᳚न्ति । सव᳚ना । हरि᳚॑भ्याम् । ब॒भ्रिः । वज्र᳚म् । प॒पिः । सोम᳚म् । द॒दिः । गाः ।
कर्ता᳚ । वी॒रम् । नर्य᳚म् । सर्व᳚॑वीरम् । श्रोता᳚ । हव᳚म् । गृ॒ण॒तः । स्तोम᳚॑वाहाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः हरिभ्यां स्वकीयाभ्यां इयन्ति हृदयस्थानानि त्रीणि सवना सवनानि गन्ता गमनशीलोभवतु कीदृशः वज्रं स्वकीयमयुधं बभ्रि- र्भर्ता धारकः सोममभिषुतं पपिः पाता गाः ददिर्दाता नर्यं मनुष्यहितं सर्ववीरं बहुपुत्रोपेतं वीरं पुत्रं कर्ता यजमानाय दाता गृणतः स्तुवतः स्तोतुः संबन्धि हवं स्तोत्रं श्रोताश्रावकः स्तोमवाहाः स्तोमैः स्तोत्रैर्वहनीयः ॥ ४ ॥

6.23.5
अस्मै᳚ व॒यं यद्वा॒वान॒ तद्वि᳚विष्म॒ इन्द्रा᳚य॒ यो नः᳚ प्र॒दिवो॒ अप॒स्कः ।
सु॒ते सोमे᳚ स्तु॒मसि॒ शंस᳚दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध᳚नं॒ यथास᳚त् ॥
▶ पदपाठः (Word-by-word)
अस्मै᳚ । व॒यम् । यत् । व॒वान᳚ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा᳚य । यः । नः॒ । प्र॒॑दिवः᳚ । अपः᳚ । करिति॒ कः ।
सु॒ते । सोमे᳚ । स्तु॒मसि᳚ । शंस᳚त् । उ॒क्था । इन्द्रा᳚य । ब्रह्म᳚ । वर्ध᳚नम् । यथा᳚ । अस᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रदिवः पुराणोयइन्द्रः नोस्मदर्थं अपः पोषणादिकंकर्म कः करोति अयमिन्द्रः यत् स्तोत्रादिकं ववान कामयते अस्माइन्द्राय वयं तद्विविष्मः व्याप्नुमः कुर्मइत्यर्थः सोमेसुतेभिषुते सति स्तुमसि स्तुमः इन्द्रायस्तोत्राणिकुर्मः उक्था उक्थानि शस्त्राणि शंसत् शंसंतः प्रथमाबहुवचनस्यलुक् ब्रह्म हविर्लक्षणमन्नं इन्द्रायेन्द्रार्थंवर्धनंयथावृद्धिकरं असत् स्यात् तथाकुर्मइत्यर्थः ॥ ५ ॥

6.23.6
ब्रह्मा᳚णि॒ हि च᳚कृ॒षे वर्ध᳚नानि॒ ताव᳚त्त इन्द्र म॒तिभि᳚र्विविष्मः ।
सु॒ते सोमे᳚ सुतपा॒ः शंत᳚मानि॒ राण्ड्या᳚ क्रियास्म॒ वक्ष᳚णानि य॒ज्ञैः ॥
▶ पदपाठः (Word-by-word)
ब्रह्मा᳚णि । हि । च॒कृ॒षे । वर्ध᳚नानि । ताव᳚त् । ते॒ । इ॒न्द्र॒ । म॒ति॑भिः᳚ । वि॒वि॒ष्मः॒ ।
सु॒ते । सोमे᳚ । सु॒त॒॑पाः॒ । शम्॑त᳚मानि । रान्द्र्या᳚ । क्रि॒या॒स्म॒ । वक्ष᳚णानि । य॒ज्ञैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं हियस्मात्कारणात् ब्रह्माणि स्तोत्राणि वर्धनानि स्वयमेववृद्धिकराणि च्चकृषे कृतवानसि तस्मात्कारणात् तावत् तावन्ति तादृशानि स्तोत्राणि ते तुभ्यं मतिभिर्बुद्धिभिः वयं विविष्मः व्याप्नुमः वर्धनानि स्तोत्राणि मम यथा भवेयुः त्वं तादृशानि कल्पितवान- सीत्यर्थः अपिच हेसुतपाः अभिषुतसोमस्यपातः त्वामुद्दिश्य सुतेसोमेअभिषुतेसति शंतमानि सुखकृत्तमानि रांद्भ्या रांद्भ्याणि रमणीया- नि यज्ञैर्हविर्भिर्युक्तानि वक्षणानि वाहकानि स्तोत्राणि क्रियास्म करवाम ॥ ६ ॥

6.23.7
स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚ण॒ः पिबा॒ तु सोमं॒ गोऋ᳚जीकमिन्द्र ।
एदं ब॒र्हिर्यज᳚मानस्य सीदो॒रुं कृ᳚धि त्वाय॒त उ᳚ लो॒कम् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश᳚म् । ररा᳚णः । पिब᳚ । तु । सोम᳚म् । गो॑ऋ᳚जीकम् । इ॒न्द्र॒ ।
आ । इ॒दम् । ब॒र्हिः । यज᳚मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒॑य॒तः । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र रराणोरममाणः सत्वं नोस्मदीयं पुरोडाशं एतल्लक्षणंहविर्बोधि बुध्यस्व किंच गोऋजीकं गोविकारदध्यादिभिःसंस्कृतं अभि- षुतंसोमंनुक्षिप्रं पिब पिबेः तदर्थंच यजमानस्य संबन्धीदं बहिरासीदाभिविश तदनंतरं त्वायतस्त्वामिच्छन्तोयजमानस्य लोकं स्थानं उरुविस्तीर्णं कृधि कुरु उइतिपूरणः ॥ ७ ॥

6.23.8
स म᳚न्दस्वा॒ ह्यनु॒ जोष᳚मुग्र॒ प्र त्वा᳚ य॒ज्ञास᳚ इ॒मे अ᳚श्नुवन्तु ।
प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव᳚स इन्द्र यम्याः ॥
▶ पदपाठः (Word-by-word)
सः । म॒न्द॒स्व॒ । हि । अनु᳚ । जोष᳚म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः᳚ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।
प्र । इ॒मे । हवा᳚सः । पु॒रु॒॑हू॒तम् । अ॒स्मे इति᳚ । आ । त्वा॒ । इ॒यम् । धीः । अव᳚से । इ॒न्द्र॒ । य॒म्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउग्र उद्गूर्णबलेन्द्र सत्वं अनुजोषं कामानुगुणं यथाभवतितथा मन्दस्व मोदस्व हिशब्दःपादपूरणः हियोगेमन्दस्वेत्याख्यातस्यव्य- त्ययात्सर्वानुदात्तत्वं इमेयज्ञासोयज्ञाः सोमाः त्वा त्वां प्राश्नुवन्तु प्राप्नुवन्तु हेपुरुहूत बहुभिराहूतेन्द्र त्वां अस्मे अस्मदीयानि इमे हवा- सोहवाःस्तोत्राणि प्राप्नुवन्तु इयंधीः स्तुतिः त्वां अवसे अस्माकं रक्षणाय आयम्याः आयच्छतु नियच्छतु ॥ ८ ॥

6.23.9
तं वः᳚ सखाय॒ः सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् ।
कु॒वित्तस्मा॒ अस᳚ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रो॑व᳚से मृधाति ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा᳚ । सु॒तेषु᳚ । सोमे᳚भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र᳚म् ।
कु॒वित् । तस्मै᳚ । अस᳚ति । नः॒ । भरा᳚य । न । सुस्वि᳚म् । इन्द्रः᳚ । अव᳚से । मृ॒धा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसखायः स्तोतारोवोयूयं सोमेषु सुतेषु अभिषुतेषुसत्सु भोजं दातारं तमीं एतमिन्द्रं सोमेभिः सोमैः यथाकामं संपृणत संपूरयत तस्माइन्द्राय कुविद्बहूपकरणं कुविदितिबहुनामैतत् असति अस्तु किमर्थं नोस्माकं भराय भरणाय पोषणाय इन्द्रः सुष्विमभिषवणशीलं यजमानं अवसे तर्पणाय नमृधाति नबाधते ॥ ९ ॥

6.23.10
ए॒वेदिन्द्र᳚ः सु॒ते अ᳚स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः᳚ ।
अस॒द्यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । इन्द्रः᳚ । सु॒ते । अ॒स्ता॒वि॒ । सोमे᳚ । भ॒रत्॑वा᳚जेषु । क्षय᳚त् । इत् । म॒घोनः᳚ ।
अस᳚त् । यथा᳚ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः᳚ । रा॒यः । वि॒श्व॑वा᳚रस्य । दा॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनोधनवतोहविष्मतोयजमानस्य क्षयत् ईश्वरः इन्द्रः सोमेसुते अभिषुतेसति भरद्वाजेषु भरद्वाजेमयि एव एवं अस्तावि स्तुतोभूत् इन्द्रः जरित्रे स्तोत्रे सूरिः सन्मार्गे प्रेरकोयथासत् भवत् उतापिच विश्ववारस्य विश्वैर्वरणीयस्य रायोधनस्य दाता यथाभवेत् तथा स्ता- वीतिसंबन्धः इदितिद्वयंपूरणम् ॥ १० ॥

तृतीयेनुवाकेविंशतिसूक्तानि तत्रवृषामदइतिदशर्चंप्रथमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं वृषेत्यनुक्रन्तं विषुवतिनिष्केवल्येएतत्सूक्तं सूत्रितंच—वृषामदःप्रमंहिष्ठायेति ।