षष्ठं मण्डलम् - सूक्तम् 30

5 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.30 - सम्पूर्णम्

1 / 5
ऋक्: 6.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.30.1
भूय॒ इद्वा᳚वृधे वी॒र्या᳚य{4}॒ एको᳚ अजु॒र्यो द᳚यते॒ वसू᳚नि ।
प्र रि᳚रिचे दि॒व इन्द्र᳚ः पृथि॒व्या अ॒र्धमिद᳚स्य॒ प्रति॒ रोद᳚सी उ॒भे ॥
▶ पदपाठः (Word-by-word)
भूयः᳚ । इत् । व॒वृ॒धे॒ । वी॒र्या᳚य । एकः᳚ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू᳚नि ।
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः᳚ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः भूयइत् बहुतरमेव वावृधे प्रवृद्धोभूत् किमर्थं वीर्याय वीरकर्माणिवृत्रवधादीनि कर्तुं एकोमुख्यः अजुर्योजरयितुमशक्यः सचेन्द्रः वसूनि धनानि दयते स्तोतृभ्योददाति तथा दिवोद्युलोकात् पृथिव्याः भूमेश्च अयमिन्द्रः प्ररिरिचे अतिरिच्यते किंचास्येन्द्रस्य उभेरोदसी द्यावापृथिव्यौ अर्धमित् अर्धमेवप्रति अस्येन्द्रस्यार्धोभागः द्यावापृथिव्योः प्रतिनिधिर्भवतीत्यर्थः ॥ १ ॥

6.30.2
अधा᳚ मन्ये बृ॒हद᳚सु॒र्य᳚मस्य॒ यानि᳚ दा॒धार॒ नकि॒रा मि᳚नाति ।
दि॒वेदि᳚वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु᳚र्धात् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य᳚म् । अ॒स्य॒ । यानि᳚ । दा॒धार᳚ । नकिः᳚ । आ । मि॒ना॒ति॒ ।
दि॒वे॑दि᳚वे । सूर्यः᳚ । द॒र्श॒तः । भू॒त् । वि । सद्मा᳚नि । उ॒र्वि॒या । सु॒॑क्रतुः᳚ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अधुना अस्येन्द्रस्य बृहत् महत् असुर्यं असुरहननकुशलं बलंमन्ये स्तौमि मन्यतिः स्तुतिकर्मा सचेन्द्रः यानिकर्माणि दाधार धार- यति तानि नकिरामिनाति नकश्चिदपिहिनस्ति कानिपुनस्तानि उच्यते दिवेदिवे प्रतिदिनं वृत्रेणावृतः सूर्यः दर्शतोदर्शनीयः भूत् भवति आवरकस्यासुरस्यवधेन सूर्यंप्रकाशितवानित्येकंकर्म सूक्रतुः शोभनकर्मासइन्द्रः सद्मानि भुवनानि उर्विया उरूणिविस्तीर्णानि विधात् व्यधात् अकार्षीत् इदमपरंकर्म एतदादीनिबहूनिकर्माणिकृतवानित्यर्थः ॥ २ ॥

6.30.3
अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒ अर᳚दो गा॒तुमि᳚न्द्र ।
नि पर्व᳚ता अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि᳚ सुक्रतो॒ रजां᳚सि ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः᳚ । न॒दीना᳚म् । यत् । आ॒भ्यः॒ । अर᳚दः । गा॒तुम् । इ॒न्द्र॒ ।
नि । पर्व᳚ताः । अ॒द्म॒॑सदः᳚ । न । से॒दुः॒ । त्वया᳚ । दृ॒ळ्हानि᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । रजां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अद्याचित् अद्यापिनूचित् पुरापि तवनदीनांसंबन्धिकं तदपः कर्म वर्तते आभ्योनदीभ्यः गातुं मार्गं अरदः प्रवहनार्थं व्यलिख- इतियत्कर्म तत्सर्वदानुपक्षीणंसद्वर्ततेइत्यर्थः अपिच त्वदाज्ञया पर्वतागिरयः निषेदुःनिषण्णाः उत्पतनंपरित्यज्यक्वचिदेवस्थानेनैश्चल्ये- नोपविष्टाबभूवुः अद्मसदोन अद्मअदनीयमन्नंतदर्थंसीदन्तःपुरुषाइव यथा तेभोजनार्थंनैश्चल्येनासीदन्तितथेत्यर्थः अतःकारणात् हेसुक्रतो शोभनकर्मन्निन्द्र त्वया रजांसि सर्वेलोकाः दृह्ळानिदृंहितानि स्थिरीकृताआसन् ॥ ३ ॥

6.30.4
स॒त्यमित्तन्न त्वावा{4}᳚ अ॒न्यो अ॒स्तीन्द्र᳚ दे॒वो न मर्त्यो॒ ज्याया᳚न् ।
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णो॑वा᳚सृजो अ॒पो अच्छा᳚ समु॒द्रम् ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । इत् । तत् । न । त्वा॑वा᳚न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र᳚ । दे॒वः । न । मर्त्यः᳚ । ज्याया᳚न् ।
अह᳚न् । अहि᳚म् । प॒रि॒॑शया᳚नम् । अर्णः᳚ । अव᳚ । अ॒सृ॒जः॒ । अ॒पः । अच्छ᳚ । स॒मु॒द्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वक्ष्यमाणं तत् सत्यमित् सत्यमेव नानृतं त्वावान् त्वत्सदृशोन्योदेवोनास्ति त्वत्सदृशोन्योमर्त्योमनुष्योपिनैवविद्यते ज्यायान् अधिकोपिदेवोमनुष्योवानखल्वस्तिइतियद्गीयतेतत्सत्यमेवेत्यर्थःअपिच त्वं अर्णउदकं परिशयानं परिवृत्यशयानं अहिं मेघं अहन् अवधीः हत्वाच समुद्रमन्तरिक्षंजलधिंवाच्छाभिमुख्येन अपउदकानि अवासृजः अवाङ्मुखतयाविसृष्टवानसीत्यर्थः ॥ ४ ॥

6.30.5 समानपद
त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र᳚ दृ॒ळ्हम᳚रुज॒ः पर्व᳚तस्य ।
राजा᳚भवो॒ जग᳚तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒पः । वि । दुरः᳚ । विषू᳚चीः । इन्द्र᳚ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व᳚तस्य ।
राजा᳚ । अ॒भ॒वः॒ । जग᳚तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य᳚म् । ज॒नय᳚न् । द्याम् । उ॒षस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं दुरः वृत्रेणावृताअपः विषूचीः विविधमंचंत्यः यथा सर्वतः प्रसृताभवन्ति तथा व्यसृजः यतस्त्वं पर्वतस्य पर्ववतोमेघस्य दृह्ळं दृढं अपांबन्धकप्रदेशं अरुजः अभांक्षीः अपिच त्वं जगतःसंबन्धिनीनांचर्षणीनांप्रजानां राजा भवः अधिपतिर्भवसि किंकुर्वन् सूर्यं द्यां द्युलोकं उषसंच तमसावृतमेतन्त्रितयं साकं युगपदेव जनयन् प्रादुर्भावयन् प्रकाशयन्नित्यर्थः ॥ ५ ॥

अभूरेकइतिपंचर्चमष्टमंसूक्तं भरद्वाजस्यसुहोत्रस्यार्षं उपांत्याशक्वरी शिष्टाश्चतस्रस्त्रिष्टुभः इन्द्रोदेवता अनुक्रम्यतेव—अभूरेकः सुहोत्र- स्तुचतुर्थीशक्वरीति । महाव्रतस्यनिष्केवल्येइदमादीन्यष्टसूक्तानिशंसनीयानि तथापंचमाण्यकं—अभूरेकोरयिपतेरयीणामित्यष्टौसूक्तानी- ति । पृष्ठ्यषस्यष्ठेहनिनिष्केवल्येइदंसूक्तंनिविद्धानं सूत्रितंच—एन्द्रयाह्युपनः प्रघान्वस्याभूरेकइतिनिष्केवस्यमिति । विश्वजितिमाध्यं- दिनेच्छावाकशस्त्रेसामसूक्ताख्यमेतच्छंसनीयं सूत्रितंच—अभूरेकोरयिपतेरयीणामितिसामसूक्तानि ।