राजा᳚भवो॒ जग᳚तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ॥
पदपाठः (Word-by-word)
राजा᳚ । अ॒भ॒वः॒ । जग᳚तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य᳚म् । ज॒नय᳚न् । द्याम् । उ॒षस᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं दुरः वृत्रेणावृताअपः विषूचीः विविधमंचंत्यः यथा सर्वतः प्रसृताभवन्ति तथा व्यसृजः यतस्त्वं पर्वतस्य पर्ववतोमेघस्य दृह्ळं दृढं अपांबन्धकप्रदेशं अरुजः अभांक्षीः अपिच त्वं जगतःसंबन्धिनीनांचर्षणीनांप्रजानां राजा भवः अधिपतिर्भवसि किंकुर्वन् सूर्यं द्यां द्युलोकं उषसंच तमसावृतमेतन्त्रितयं साकं युगपदेव जनयन् प्रादुर्भावयन् प्रकाशयन्नित्यर्थः ॥ ५ ॥
अभूरेकइतिपंचर्चमष्टमंसूक्तं भरद्वाजस्यसुहोत्रस्यार्षं उपांत्याशक्वरी शिष्टाश्चतस्रस्त्रिष्टुभः इन्द्रोदेवता अनुक्रम्यतेव—अभूरेकः सुहोत्र- स्तुचतुर्थीशक्वरीति । महाव्रतस्यनिष्केवल्येइदमादीन्यष्टसूक्तानिशंसनीयानि तथापंचमाण्यकं—अभूरेकोरयिपतेरयीणामित्यष्टौसूक्तानी- ति । पृष्ठ्यषस्यष्ठेहनिनिष्केवल्येइदंसूक्तंनिविद्धानं सूत्रितंच—एन्द्रयाह्युपनः प्रघान्वस्याभूरेकइतिनिष्केवस्यमिति । विश्वजितिमाध्यं- दिनेच्छावाकशस्त्रेसामसूक्ताख्यमेतच्छंसनीयं सूत्रितंच—अभूरेकोरयिपतेरयीणामितिसामसूक्तानि ।