भूय॒ इद्वा᳚वृधे वी॒र्या᳚य{4}॒ एको᳚ अजु॒र्यो द᳚यते॒ वसू᳚नि ।
प्र रि᳚रिचे दि॒व इन्द्र᳚ः पृथि॒व्या अ॒र्धमिद᳚स्य॒ प्रति॒ रोद᳚सी उ॒भे ॥
प्र रि᳚रिचे दि॒व इन्द्र᳚ः पृथि॒व्या अ॒र्धमिद᳚स्य॒ प्रति॒ रोद᳚सी उ॒भे ॥
पदपाठः (Word-by-word)
भूयः᳚ । इत् । व॒वृ॒धे॒ । वी॒र्या᳚य । एकः᳚ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू᳚नि ।
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः᳚ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः᳚ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः भूयइत् बहुतरमेव वावृधे प्रवृद्धोभूत् किमर्थं वीर्याय वीरकर्माणिवृत्रवधादीनि कर्तुं एकोमुख्यः अजुर्योजरयितुमशक्यः सचेन्द्रः वसूनि धनानि दयते स्तोतृभ्योददाति तथा दिवोद्युलोकात् पृथिव्याः भूमेश्च अयमिन्द्रः प्ररिरिचे अतिरिच्यते किंचास्येन्द्रस्य उभेरोदसी द्यावापृथिव्यौ अर्धमित् अर्धमेवप्रति अस्येन्द्रस्यार्धोभागः द्यावापृथिव्योः प्रतिनिधिर्भवतीत्यर्थः ॥ १ ॥