अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒ अर᳚दो गा॒तुमि᳚न्द्र ।
नि पर्व᳚ता अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि᳚ सुक्रतो॒ रजां᳚सि ॥
नि पर्व᳚ता अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि᳚ सुक्रतो॒ रजां᳚सि ॥
पदपाठः (Word-by-word)
अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः᳚ । न॒दीना᳚म् । यत् । आ॒भ्यः॒ । अर᳚दः । गा॒तुम् । इ॒न्द्र॒ ।
नि । पर्व᳚ताः । अ॒द्म॒॑सदः᳚ । न । से॒दुः॒ । त्वया᳚ । दृ॒ळ्हानि᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । रजां᳚सि ॥
नि । पर्व᳚ताः । अ॒द्म॒॑सदः᳚ । न । से॒दुः॒ । त्वया᳚ । दृ॒ळ्हानि᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । रजां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र अद्याचित् अद्यापिनूचित् पुरापि तवनदीनांसंबन्धिकं तदपः कर्म वर्तते आभ्योनदीभ्यः गातुं मार्गं अरदः प्रवहनार्थं व्यलिख- इतियत्कर्म तत्सर्वदानुपक्षीणंसद्वर्ततेइत्यर्थः अपिच त्वदाज्ञया पर्वतागिरयः निषेदुःनिषण्णाः उत्पतनंपरित्यज्यक्वचिदेवस्थानेनैश्चल्ये- नोपविष्टाबभूवुः अद्मसदोन अद्मअदनीयमन्नंतदर्थंसीदन्तःपुरुषाइव यथा तेभोजनार्थंनैश्चल्येनासीदन्तितथेत्यर्थः अतःकारणात् हेसुक्रतो शोभनकर्मन्निन्द्र त्वया रजांसि सर्वेलोकाः दृह्ळानिदृंहितानि स्थिरीकृताआसन् ॥ ३ ॥