इ॒र॒ज्यन्ता᳚ वस॒व्य᳚स्य॒ भूरे॒ः सह᳚स्तमा॒ सह᳚सा वाज॒यन्ता᳚ ॥
पदपाठः (Word-by-word)
इ॒र॒ज्यन्ता᳚ । व॒स॒व्य᳚स्य । भूरेः᳚ । सहः᳚॑तमा᳚ । सह᳚सा । वा॒ज॒॑यन्ता᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सपुरुषः वृत्रमावरकंसत्रुंश्नथत् हिनस्ति उतापिच वाजमन्नंबलंवासनोति लभते यःपुरुषः सहुरीशत्रूणामभिभविताराविन्द्राग्नीसपयात् परिचरेत् । इतरेतरयोगादुभयत्रपूर्ववद्विवचनं कीदृशाविन्द्राग्नी भूरेः प्रभूतस्यवसव्यस्य वसुसमूहस्य यद्वास्वार्थिकोयत् धनस्यइरज्यन्ता ईशानौस्वामिनौ इरज्यतिरैश्वर्यकर्मा सहसाबलेनसहस्तमाअतिशयेनाभिभवितारौ शत्रूणांवाजयन्तावाजं हविर्लक्षणमन्नंआत्मनइच्छन्तौ यद्वावाजंस्तोतृभ्योदातव्यमन्नंकामयमानौ ॥ १ ॥