उ॒भा वा᳚मिन्द्राग्नी आहु॒वध्या᳚ उ॒भा राध᳚सः स॒ह मा᳚द॒यध्यै᳚ ।
उ॒भा दा॒तारा᳚वि॒षां र᳚यी॒णामु॒भा वाज᳚स्य सा॒तये᳚ हुवे वाम् ॥
उ॒भा दा॒तारा᳚वि॒षां र᳚यी॒णामु॒भा वाज᳚स्य सा॒तये᳚ हुवे वाम् ॥
पदपाठः (Word-by-word)
उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति᳚ । आ॒॑हु॒वध्यै᳚ । उ॒भा । राध᳚सः । स॒ह । मा॒द॒यध्यै᳚ ।
उ॒भा । दा॒तारौ᳚ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज᳚स्य । सा॒तये᳚ । हु॒वे॒ । वा॒म् ॥
उ॒भा । दा॒तारौ᳚ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज᳚स्य । सा॒तये᳚ । हु॒वे॒ । वा॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्राग्नी उभाउभौसंहत्यवर्तमानौवांयुवांहुवेआह्वयामि किमर्थंआहुवध्यै आभिमुख्येनहोतुं तथाउभाउभौयुवामाह्वये राधसः राधसाराधकेनहविषासहयुगपदेवमादयध्यै मादयितुंतर्पयितुंसर्वेषुदेवेषुसत्सुआवयोराह्वानेकिंकारणमितिचेदुच्यते—उभाउभौतौयुवां इषामन्नानांरयीणां धनानांचदातारौस्थः अतःकारणात्उभाउभौ वांयुवां वाजस्यान्नस्यसातये संभजनायहुवे आह्वये ॥ १३ ॥