आ वृ᳚त्रहणा वृत्र॒हभि॒ः शुष्मै॒रिन्द्र᳚ या॒तं नमो᳚भिरग्ने अ॒र्वाक् ।
यु॒वं राधो᳚भि॒रक᳚वेभिरि॒न्द्राग्ने᳚ अ॒स्मे भ᳚वतमुत्त॒मेभि᳚ः ॥
यु॒वं राधो᳚भि॒रक᳚वेभिरि॒न्द्राग्ने᳚ अ॒स्मे भ᳚वतमुत्त॒मेभि᳚ः ॥
पदपाठः (Word-by-word)
आ । वृ॒त्र॒॑ह॒ना॒ । वृ॒त्र॒ह॑भिः᳚ । शुष्मैः᳚ । इन्द्र᳚ । या॒तम् । नमः᳚॑भिः । अ॒ग्ने॒ । अ॒र्वाक् ।
यु॒वम् । राधः᳚॑भिः । अक᳚वेभिः । इ॒न्द्र॒ । अग्ने᳚ । अ॒स्मे इति᳚ । भ॒व॒त॒म् । उ॒त्॑त॒मेभिः᳚ ॥
यु॒वम् । राधः᳚॑भिः । अक᳚वेभिः । इ॒न्द्र॒ । अग्ने᳚ । अ॒स्मे इति᳚ । भ॒व॒त॒म् । उ॒त्॑त॒मेभिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेवृत्रहणा वृत्रस्यासुरस्यहन्तारौ हेइन्द्र हेअग्ने वृत्रहभिः वृत्रस्यहन्तृभिःवृत्रहनननिमित्तैः शुष्मैर्बलैः नमोभिः अस्मभ्यंदातव्यैरन्नैश्च सार्धं अर्वाक् अस्मदभिमुखंआयातमागच्छतम् । हेइन्द्र हेअग्ने युवंयुवांअकवेभिः अकुत्सितैर्महद्भिः उत्तमेभिः उत्कृष्टतमैः राधोभिः धनैः सहअस्मेअस्मासुभवतमाविर्भवतं ॥ ३ ॥ चातुर्विंशिकेहनिप्रातः सवनेच्छावाकशस्त्रेताहुवेइतिषळहः स्तोत्रियस्तृचः सूत्रितंच—ताहुवेययोरिदमियंवामस्यमन्मनइति । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धौताहुवइत्याद्यानवर्चआवा पार्थाः सूत्रितंच—ताहुवेययोरिदमितिनवेयंवामस्यमन्मनइत्येकादशेति ।