ताभि॒रा ग᳚च्छतं न॒रोपे॒दं सव᳚नं सु॒तम् ।
इन्द्रा᳚ग्नी॒ सोम᳚पीतये ॥
इन्द्रा᳚ग्नी॒ सोम᳚पीतये ॥
पदपाठः (Word-by-word)
ताभिः᳚ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप᳚ । इ॒दम् । सव᳚नम् । सु॒तम् ।
इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚॑पीतये ॥
इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚॑पीतये ॥
सायणभाष्यम् (Sayana Commentary)
हेनरानेताराविन्द्राग्नी सूयतेअभिषूयतेइतिरावनः सोमः इदंसवनंइमंसोमंसुतमभिषुतंउपप्रति यद्वाइदंप्रातः सवनंउपअस्मिन् सवनेसुतमभिषुतंसोमंप्रतिताभिःनियुद्भिरागच्छतं किमर्थं सोमपीतये तस्यसोमस्यपानार्थं ॥ ९ ॥