या वां॒ सन्ति᳚ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा ।
इन्द्रा᳚ग्नी॒ ताभि॒रा ग᳚तम् ॥
इन्द्रा᳚ग्नी॒ ताभि॒रा ग᳚तम् ॥
पदपाठः (Word-by-word)
याः । वा॒म् । सन्ति᳚ । पु॒रु॒॑स्पृहः᳚ । नि॒॑युतः᳚ । दा॒शुषे᳚ । न॒रा॒ ।
इन्द्रा᳚ग्नी॒ इति᳚ । ताभिः᳚ । आ । ग॒त॒म् ॥
इन्द्रा᳚ग्नी॒ इति᳚ । ताभिः᳚ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हेनरानेताराविन्द्राग्नी वांयुवयोःस्वभूताःपुरुस्पृहःपुरुभिर्बहुभिः स्पृहणीयाः दाशुषेहवींषि दत्तवतेयजमानार्थंउत्पन्नाः या नियुतोश्वाः सन्ति हेइन्द्राग्नी ताभिर्नियुद्भिरागतंआगच्छतं ॥ ८ ॥