ता यो᳚धिष्टम॒भि गा इ᳚न्द्र नू॒नम॒पः स्व᳚रु॒षसो᳚ अग्न ऊ॒ळ्हाः ।
दिश॒ः स्व᳚रु॒षस᳚ इन्द्र चि॒त्रा अ॒पो गा अ᳚ग्ने युवसे नि॒युत्वा᳚न् ॥
दिश॒ः स्व᳚रु॒षस᳚ इन्द्र चि॒त्रा अ॒पो गा अ᳚ग्ने युवसे नि॒युत्वा᳚न् ॥
पदपाठः (Word-by-word)
ता । यो॒धि॒ष्ट॒म् । अ॒भि । गाः । इ॒न्द्र॒ । नू॒नम् । अ॒पः । स्वः᳚ । उ॒षसः᳚ । अ॒ग्ने॒ । ऊ॒ळ्हाः ।
दिशः᳚ । स्वः᳚ । उ॒षसः᳚ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा᳚न् ॥
दिशः᳚ । स्वः᳚ । उ॒षसः᳚ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र हेअग्ने ता तौ युवांगाःआपः उदकानिस्वः सूर्यंउषसःउषःकालान् ऊह्ळाःपणिभिरपहृताः एतान् गवादीनभिलक्ष्ययोधिष्टं तैरसु- रैः युद्धंकृतवन्तौ नूनमितिपादपूरणार्थः हेइन्द्र त्वंदिशःप्राच्याद्याःस्वःसूर्यंउषसश्चचित्राश्चायनीयाअपउदकानिच गाश्च पणिभिरपहृताने- तान् युवसे अनेनलोकेनायोजयः यद्वाअसुरैरावृतान् दिगादीन् असुरवधेनावरणमपनीय पृथक्कृतवानसीत्यर्थः हेअग्ने नियुत्वान् नियुद्भि- रश्वैर्युक्तः सन् त्वमप्येवमकार्षीरित्यर्थः ॥ २ ॥ ऎन्द्राग्नस्यपशोर्वपायाआवृत्रहणेत्यनुवाक्या सूत्रितंच—आवृत्रहणावृत्रहभिः शुष्मैराभरतं शिक्षतंवज्रबाहूइति ।