श्रवणम्

6.60.10
तमी᳚ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज᳚त् ।
कृ॒ष्णा कृ॒णोति᳚ जि॒ह्वया᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा᳚ । वना᳚ । विश्वा᳚ । प॒रि॒॑स्वज᳚त् ।
कृ॒ष्णा । कृ॒णोति᳚ । जि॒ह्वया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतः तमग्निंईळिष्वस्तुहि योग्निः अर्चिषाज्वालारूपेणतेजसाविशासर्वाणिवनान्यरण्यानिपरिष्वजत् परिष्वजति परितोवेष्टयति यश्चतानिवनानिजिह्वयाज्वालयादग्धाकृष्णाकृष्णवर्णानिकृणोतिकरोति ॥ १० ॥