उ॒ग्रा वि᳚घ॒निना॒ मृध᳚ इन्द्रा॒ग्नी ह᳚वामहे ।
ता नो᳚ मृळात ई॒दृशे᳚ ॥
ता नो᳚ मृळात ई॒दृशे᳚ ॥
पदपाठः (Word-by-word)
उ॒ग्रा । वि॒॑घ॒निना᳚ । मृधः᳚ । इ॒न्द्रा॒ग्नी इति᳚ । ह॒वा॒म॒हे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे᳚ ॥
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उग्राउग्रौ उद्गूर्णबलौ अतएवमृधःशत्रून्विघनिनौविघनिनाविशेषेणहतवन्तौ इन्द्राग्नीहवामहे आह्वयामहे । तौचेन्द्राग्नीईदृशेस्मि- न्त्संग्रामेनोस्मान्मृळातः सूखयतां यद्वामृळतिरुपदयाकर्मा नोस्माकंमृळतः उपदयांकुरुतां ॥ ५ ॥