य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र᳚स्य॒ मर्त्य᳚ः ।
द्यु॒म्नाय᳚ सु॒तरा᳚ अ॒पः ॥
द्यु॒म्नाय᳚ सु॒तरा᳚ अ॒पः ॥
पदपाठः (Word-by-word)
यः । इ॒द्धे । आ॒॑विवा᳚सति । सु॒म्नम् । इन्द्र᳚स्य । मर्त्यः᳚ ।
द्यु॒म्नाय᳚ । सु॒॑तराः᳚ । अ॒पः ॥
द्यु॒म्नाय᳚ । सु॒॑तराः᳚ । अ॒पः ॥
सायणभाष्यम् (Sayana Commentary)
योमर्त्योमनुष्यः इद्धेदीप्तेग्नौसुम्नंसुखकरंहविःइन्द्रस्यइन्द्रायआविवासति परिचरतिप्रयच्छति चतुर्थ्यर्थेषष्ठी तस्यमर्त्यस्यद्युम्नायद्योत- मानायान्नाय तदर्थंसुतराःसुखेनतरणीयाःअपः उदकानिष्ट्यात्मकानिइन्द्रःकरोतीतिशेषः ॥ ११ ॥