श्रवणम्

6.60.15
इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज᳚मानस्य सुन्व॒तः ।
वी॒तं ह॒व्यान्या ग᳚तं॒ पिब᳚तं सो॒म्यं मधु᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । शृ॒णु॒तम् । हव᳚म् । यज᳚मानस्य । सु॒न्व॒तः ।
वी॒तम् । ह॒व्यानि᳚ । आ । ग॒त॒म् । पिब᳚तम् । सो॒म्यम् । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी सुन्वतः सोमाभिषवंकुर्वतोयजमानस्यहवमाह्वानंस्तोत्रंश्रृणुतं श्रुत्वाचतदीयानिहव्यानिहवींषिवीतं कामयेथाम् । कामयि- त्वाच आगतंआगच्छतम् । आगत्यचसोम्यंसोमात्मकंमधुपिबतं ॥ १५ ॥

इयमददादितिचतुर्दशर्चंद्वादशंसूक्तं भरद्वाजस्यार्षं सरस्वतीदेवताकं आदितस्तिस्रोजगत्यः त्रयोदश्यपिजगती चतुर्दशीत्रिष्टुप् शिष्टा- गायत्र्यः तथाचानुक्रांतं—इयंषळूनासारस्वतंत्रिजगत्यादिजगतीत्रिष्टुबन्तमिति । अत्रशौनकः—इयमित्येतदाद्यन्तुसूक्तंसारस्वतंजपेत् । द्विजः प्रातः शुचिर्भूत्वावाग्मीभवतिबुद्धिमानिति १ पर्ष्ठिकेषष्ठेहनिप्रउगेइयमददादितिसारस्वतस्तृचः सूत्रितंच—इयमददाद्रभसमृण- च्युतमितिप्रउगमिति ।