ता नो॒ वाज᳚वती॒रिष᳚ आ॒शून्पि᳚पृत॒मर्व᳚तः ।
इन्द्र᳚म॒ग्निं च॒ वोळ्ह᳚वे ॥
इन्द्र᳚म॒ग्निं च॒ वोळ्ह᳚वे ॥
पदपाठः (Word-by-word)
ता । नः॒ । वाज᳚॑वतीः । इषः᳚ । आ॒शून् । पि॒पृ॒त॒म् । अर्व᳚तः ।
इन्द्र᳚म् । अ॒ग्निम् । च॒ । वोळ्ह᳚वे ॥
इन्द्र᳚म् । अ॒ग्निम् । च॒ । वोळ्ह᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्राग्नी ता तौयुवांवाजवतीः अन्नवतीः इषः इष्यमाणावृष्टीःयद्वा वाजोबलंतद्वतीरिषोन्नानि आशून्शीघ्रगान् अर्वतोश्वांश्चनोस्मभ्यं- पिपृतंपूरयतं प्रयच्छतम् । किमर्थं इन्दमग्निंचयुवां वोह्ळवेवोढुं हविर्भिःपापयितुं ॥ १२ ॥ ऎन्द्राग्नस्यपशोर्हविषोनुवाक्यउभावामित्येषा सूत्रितंच—उभावामिन्द्राग्नीआहुवध्यैशुचिंनुस्तोमंनवजातमद्येति ।