आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॒᳚रुप᳚ गच्छतम् ।
सखा᳚यौ दे॒वौ स॒ख्याय᳚ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह᳚वामहे ॥
सखा᳚यौ दे॒वौ स॒ख्याय᳚ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह᳚वामहे ॥
पदपाठः (Word-by-word)
आ । नः॒ । गव्ये᳚भिः । अश्व्यैः᳚ । व॒स॒व्यैः᳚ । उप᳚ । ग॒च्छ॒त॒म् ।
सखा᳚यौ । दे॒वौ । स॒ख्याय᳚ । श॒म्॑भुवा᳚ । इ॒न्द्रा॒ग्नी इति᳚ । ता । ह॒वा॒म॒हे॒ ॥
सखा᳚यौ । दे॒वौ । स॒ख्याय᳚ । श॒म्॑भुवा᳚ । इ॒न्द्रा॒ग्नी इति᳚ । ता । ह॒वा॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्राग्नी गव्येभिर्गोसमूहैः अश्व्यैरश्वसमूहैः वसव्यैर्वसुसमूहैश्चसार्धं नोस्मानाभिमुख्येनउपगच्छतं शेषःपरोक्षकृतः सखायौसमान- ख्यानौदेवौ दानादिगुणयुक्तौ शंभुवा शंभुवौ सुखस्यभावयितारौ ता तादृशाविन्द्राग्नी सख्यायसखित्वार्थंवयंहवामहे आह्वयामहे ॥ १४ ॥