षष्ठं मण्डलम् - सूक्तम् 75

19 ऋचः

ऋषिः: पायुर्भारद्वाजः देवता: वर्म छन्दः: त्रिष्टुप्

सूक्तम् 6.75 - सम्पूर्णम्

1 / 19
ऋक्: 6.75.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
6.75.1
जी॒मूत᳚स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति᳚ स॒मदा᳚मु॒पस्थे᳚ ।
अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म᳚णो महि॒मा पि᳚पर्तु ॥
▶ पदपाठः (Word-by-word)
जी॒मूत᳚स्य॑इव । भ॒व॒ति॒ । प्रती᳚कम् । यत् । व॒र्मी । याति᳚ । स॒॑मदा᳚म् । उ॒प॑स्थे᳚ ।
अना᳚विद्धया । त॒न्वा᳚ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म᳚णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समदां संग्रामाणां उपस्थे उपस्थाने सति यद्यदायं राजा वर्मी कवची याति तदा लोहमयेन वर्मणा सन्नद्धस्य राज्ञः प्रतीकं रूपं जीमूत- स्येव मेघस्येव भवति मेघस्य यादृशं रूपं तादृशमस्य भवतीत्यर्थः हे राजन् त्वं अनाविद्धया शत्रुभिरबाधितया तन्वा शरीरेण शत्रून् जयवर्मणः सतादृशो महिमा त्वा त्वां पिपर्तु पालयतु ॥ १ ॥

6.75.2
धन्व᳚ना॒ गा धन्व᳚ना॒जिं ज᳚येम॒ धन्व᳚ना ती॒व्राः स॒मदो᳚ जयेम ।
धनु॒ः शत्रो᳚रपका॒मं कृ᳚णोति॒ धन्व᳚ना॒ सर्वा᳚ः प्र॒दिशो᳚ जयेम ॥
▶ पदपाठः (Word-by-word)
धन्व᳚ना । गाः । धन्व᳚ना । आ॒जिम् । ज॒ये॒म॒ । धन्व᳚ना । ती॒व्राः । स॒॑मदः᳚ । ज॒ये॒म॒ ।
धनुः᳚ । शत्रोः᳚ । अ॒प॒॑का॒मम् । कृ॒णो॒ति॒ । धन्व᳚ना । सर्वाः᳚ । प्र॒॑दिशः᳚ । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्वना चापेन गाः शत्रूणां जयेम वयं वशीकरवाम धन्वना आजिं संग्रामं च जयेम धन्वना तीव्राः उद्धताः समदः अत्यन्तमदवतीः शत्रुसेनाश्च जयेम तथाचयास्कः-समदः समदोवात्तेः संमदोवामदतेरिति । धनुः शत्रोरपकामं कामस्यापायं कृणोति करोतु । किं च धन्वना वयं सर्वाः प्रदिशः सर्वासु दिक्षु वर्तमानान् शत्रून् जयम प्रदिक् शब्दो लक्षणया तत्स्थेषु पुरुषेषु वर्तते मंचाः क्रोशंतीतिवत् । धन्वन् शब्दस्य जयतेश्चावृत्तिरादरार्था ॥ २ ॥

6.75.3
व॒क्ष्यन्ती॒वेदा ग᳚नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना ।
योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम᳚ने पा॒रय᳚न्ती ॥
▶ पदपाठः (Word-by-word)
व॒क्ष्यन्ती᳚॑इव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण᳚म् । प्रि॒यम् । सखा᳚यम् । प॒रि॒॑स॒स्व॒जा॒ना ।
योषा᳚॑इव । शि॒ङ्क्ते॒ । वि॑त᳚ता । अधि᳚ । धन्व᳚न् । ज्या । इ॒यम् । सम᳚ने । पा॒रय᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वत्र ऋग्द्वयेन कवचधनुषी स्तुते अत्र ज्यास्तुतिः इयं ज्या समने संग्रामे धन्वन् धन्वनि अधीति सप्तम्यर्थानुवादः । वितता विस्तृता पारयन्ती पारं नयन्ती प्रियं प्रियकरं वाक्यं वक्ष्यन्ती इव कर्णं धन्विनो राज्ञः कर्णप्रदेशं आगनीगन्ति आगच्छति । इदिति पूरणः योषा नारी सखायं पतिमिव परिषस्वजाना इषुं परिष्वजमाना शिंक्ते शब्दायते च । तथाच यास्कः-वक्ष्यन्तीवागच्छति कर्णंप्रियमिव सखाय- मिषुं परिष्वजमाना योषेव शिंक्ते शब्दंकरोति वितताधिधनुषिज्येयंसमने संग्रामे पारयन्ती पारं नयन्तीति ॥ ३ ॥

6.75.4 समानपद
ते आ॒चर᳚न्ती॒ सम᳚नेव॒ योषा᳚ मा॒तेव᳚ पु॒त्रं बि᳚भृतामु॒पस्थे᳚ ।
अप॒ शत्रू᳚न्विध्यतां संविदा॒ने आर्त्नी᳚ इ॒मे वि᳚ष्फु॒रन्ती᳚ अ॒मित्रा᳚न् ॥
▶ पदपाठः (Word-by-word)
ते इति᳚ । आ॒चर᳚न्ती॒ इत्या॒॑चर᳚न्ती । सम᳚ना॑इव । योषा᳚ । मा॒ता॑इ᳚व । पु॒त्रम् । बि॒भृ॒ता॒म् । उ॒प॑स्थे᳚ ।
अप᳚ । शत्रू᳚न् । वि॒ध्य॒ता॒म् । सं॒वि॒दा॒ने इति᳚ स॒म्॑वि॒दा॒ने । आ॒र्त्नी इति᳚ । इ॒मे इति᳚ । वि॒स्फु॒रन्ती॒ इति᳚ वि॒॑स्फु॒रन्ती᳚ । अ॒मित्रा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र धनुःकोट्योः स्तुतिः ते धनुः कोट्यौ समनेव समनस्केव योषा पतिसमीपं न त्यजति त्रद्वदाचरन्ती अभितश्चरंत्यौ उपस्थे उपस्थाने मातेव पुत्रं यथा माता पुत्रं धारयति तद्वत् बिभृतां राजानं धारयेताम् । किं च इमे धनुःकोट्यौ संविदाने संजानाने विसंवादरहिते आर्त्नी गच्छन्त्यौ ऋगताविति धातोः चर्यगिभ्यां निरिति बाहुलकात् निप्रत्ययोधातोरार्तभावश्च ततः कृदिकारादक्तिनइतिङीष् द्विवचनस्य पूर्वसवर्णः अस्य राज्ञः अमित्रान् विष्फुरन्ती विहिंसंत्यौ शत्रूंश्च अपविध्यताम् । तथाच यास्कः-तेआचारन्ती समनसाविवयोषे मातेवपुत्रं बिभृतामुपस्थउपस्थाने पविध्यतां शत्रून् संविदाने आर्त्न्याविमे विघ्नवत्यावमित्रानिति ॥ ४ ॥

6.75.5 समानपद
ब॒ह्वी॒नां पि॒ता ब॒हुर᳚स्य पु॒त्रश्चि॒श्चा कृ᳚णोति॒ सम᳚नाव॒गत्य᳚ ।
इ॒षु॒धिः सङ्का॒ः पृत᳚नाश्च॒ सर्वा᳚ः पृ॒ष्ठे निन᳚द्धो जयति॒ प्रसू᳚तः ॥
▶ पदपाठः (Word-by-word)
ब॒ह्वी॒नाम् । पि॒ता । ब॒हुः । अ॒स्य । पु॒त्रः । चि॒श्चा । कृ॒णो॒ति॒ । सम᳚ना । अ॒व॒॑गत्य᳚ ।
इ॒षु॒॑धिः । सङ्काः᳚ । पृत᳚नाः । च॒ । सर्वाः᳚ । पृ॒ष्ठे । नि॑न᳚द्धः । ज॒य॒ति॒ । प्र॑सू᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इषुधिरत्र स्तूयते इषुधिः बह्वीनामिषूणांपिता भवति रक्षणहेतुत्वात् पितेत्युच्यते इषुशब्दस्योभयलिंगत्वात् बह्वीनामिति प्रयोगः अस्य इषुधेः पुत्रः इषुर्बहुर्भवति बहवः इषवो हि इषुधौ निधीयन्ते इषूणां निधानत्वादिषुधिः तथाच यास्कः-इषुधिरिषूणां निधान- मिति । चिश्चाकृणोति चिश्चेति शब्दानुकृतिः इषुषूद्रियमाणेषु इषुधिश्चिश्चाशब्दं करोति । किं च इषुधिः पृष्ठे निनद्धः धन्विनो राज्ञः पृष्ठभागे बद्धः समना युद्धानि अवगत्य प्राप्य प्रसूतः प्रसुवन् कर्तरिनिष्ठा इषून्प्रेरयन् संकाः सहकायन्ति शब्दायन्ति शब्दायन्ते इति संकाः पृतनाः सर्वाः सेनाः जयति ॥ ५ ॥

6.75.6 समानपद
रथे॒ तिष्ठ᳚न्नयति वा॒जिनः᳚ पु॒रो यत्र᳚यत्र का॒मय᳚ते सुषार॒थिः ।
अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः᳚ प॒श्चादनु᳚ यच्छन्ति र॒श्मयः᳚ ॥
▶ पदपाठः (Word-by-word)
रथे᳚ । तिष्ठ᳚न् । न॒य॒ति॒ । वा॒जिनः᳚ । पु॒रः । यत्र᳚॑यत्र । का॒मय᳚ते । सु॒॑सा॒र॒थिः ।
अ॒भीशू᳚नाम् । म॒हि॒मान᳚म् । प॒ना॒य॒त॒ । मनः᳚ । प॒श्चात् । अनु᳚ । य॒च्छ॒न्ति॒ । र॒श्मयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र पूर्वार्धे सारथिस्तुतिः उत्तरार्धेभीशूनां स्तुतिः सुषारथिः शोभनसारथिः रथे तिष्ठन् पुरः पुरस्तात् वर्तमानान् वाजिनोश्वान् यत्र यत्र नेतुं कामयते तत्र तत्र नयति ये रथे रश्मयोश्वग्रीवाभ्यां व्याप्य वर्तमानाः पाशाः पश्चात् रथस्य रथस्य पृष्ठभागे विद्यमानानश्वान् मनः सारथेर्मनोनुकूलं अनुयच्छन्ति नियच्छन्ति तेषामभीशूनां रश्मीनां महिमानं महत्त्वं पनायत हे जनाः स्तुत तथाच यास्कः-रथेति- ष्ठन्नयतिवाजिनःपुरस्तात्सतोयत्रयत्रकामयतेसुषारथिः कल्याणसारथिरभीशूनांमहिमानंपूजयतमनः पश्चात्सतोनुपयच्छंतिरश्मयइति ॥ ६ ॥

6.75.7
ती॒व्रान्घोषा᳚न्कृण्वते॒ वृष᳚पाण॒यो॑श्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः ।
अ॒व॒क्राम᳚न्त॒ः प्रप᳚दैर॒मित्रा᳚न्क्षि॒णन्ति॒ शत्रू{4}॒रन᳚पव्ययन्तः ॥
▶ पदपाठः (Word-by-word)
ती॒व्रान् । घोषा᳚न् । कृ॒ण्व॒ते॒ । वृष᳚॑पाणयः । अश्वाः᳚ । रथे᳚भिः । स॒ह । वा॒जय᳚न्तः ।
अ॒व॒॑क्राम᳚न्तः । प्र॑प᳚दैः । अ॒मित्रा᳚न् । क्षि॒णन्ति᳚ । शत्रू᳚न् । अन᳚प॑व्ययन्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राश्वस्तुतिः अश्वाः वृषपाणयः पांसूनां वर्षकखुराः रथेभिः रथैः सह वाजयन्तो वेगमाचरन्तः तीव्रान् उच्चतरान् घोषान् शब्दान् कुर्वते- कृण्वते किं च । अनपव्ययन्तोऽपलायमानाः अमित्रान् हिंसकान् शत्रून् प्रपदैः पादाग्रैः अवक्रामन्तः क्षिणंति हिंसन्ति ॥ ७ ॥

6.75.8
र॒थ॒वाह᳚नं ह॒विर᳚स्य॒ नाम॒ यत्रायु᳚धं॒ निहि᳚तमस्य॒ वर्म᳚ ।
तत्रा॒ रथ॒मुप᳚ श॒ग्मं स᳚देम वि॒श्वाहा᳚ व॒यं सु᳚मन॒स्यमा᳚नाः ॥
▶ पदपाठः (Word-by-word)
र॒थ॒॑वाह᳚नम् । ह॒विः । अ॒स्य॒ । नाम᳚ । यत्र᳚ । आयु᳚धम् । नि॑हि᳚तम् । अ॒स्य॒ । वर्म᳚ ।
तत्र᳚ । रथ᳚म् । उप᳚ । श॒ग्मम् । स॒दे॒म॒ । वि॒श्वाहा᳚ । व॒यम् । सु॒॑म॒न॒स्यमा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य राज्ञः रथवाहनं शत्रून् जित्वा रथेनोह्यमानं धनं हविर्भवति अग्नेर्हविरिववर्धकं भवतीत्यर्थः । नामेति संमतिः यत्र रथे अस्य राज्ञः आयुधं धनुः शरादिकं वर्म कवचं च निहितं भवति तत्रेत्यव्ययस्य सार्वविभक्तित्वात् शग्मं सुखकरं विश्वाहा सर्वदा सुमनस्यमानाः सुख- मनसो भवन्तो वयं पायवो भरद्वाजाः उपसदेम उपगच्छेम ॥ ८ ॥

6.75.9 समानपद
स्वा॒दु॒षं॒सदः᳚ पि॒तरो᳚ वयो॒धाः कृ᳚च्छ्रे॒श्रित॒ः शक्ती᳚वन्तो गभी॒राः ।
चि॒त्रसे᳚ना॒ इषु᳚बला॒ अमृ᳚ध्राः स॒तोवी᳚रा उ॒रवो᳚ व्रातसा॒हाः ॥
▶ पदपाठः (Word-by-word)
स्वा॒दु॒॑सं॒सदः᳚ । पि॒तरः᳚ । व॒यः॒॑धाः । कृ॒च्छ्रे॒॑श्रितः᳚ । शक्ति᳚॑वन्तः । ग॒भी॒राः ।
चि॒त्र॑से᳚नाः । इषु᳚॑बलाः । अमृ᳚ध्राः । स॒तः॑वी᳚राः । उ॒रवः᳚ । व्रा॒त॒॑स॒हाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र रथगोपस्तुतिः पितरो रथस्य पालयितारः स्वादुषं सदः शत्रूणां स्वादुन्यन्ने संसीदन्तः शत्रूणामन्नमवसादयन्तो वा वयोधाः अन्नस्य दातारः कृच्छ्रे श्रितः आपदि श्रयन्तः शक्तिरायुधविशेषः तद्वन्तः शक्तीवन्तः शक्तिहस्ताइति यावत् । यद्वा शक्तिर्बलं तद्वन्तः गभीराः अनाधृष्याः चित्रसेनाः दर्शनीयसेनाः इषुबलाः बाणबलाः अमृध्राः हिंसितुमशक्याः सतोवीराः प्राप्तवीर्याः । तथाचयास्कः-तिरः सतइति प्राप्तस्य तिरः स्तीर्णंभवति सतः संसृतंभवतीति । उरवोमहान्तः व्रातसहाः समूहानामभिभवितारोभवन्तीति ॥ ९ ॥

6.75.10
ब्राह्म᳚णास॒ः पित᳚र॒ः सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी अ᳚ने॒हसा᳚ ।
पू॒षा नः᳚ पातु दुरि॒तादृ᳚तावृधो॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ॥
▶ पदपाठः (Word-by-word)
ब्राह्म᳚णासः । पित᳚रः । सोम्या᳚सः । शि॒वे इति᳚ । नः॒ । द्यावा᳚पृथि॒वी इति᳚ । अ॒ने॒हसा᳚ ।
पू॒षा । नः॒ । पा॒तु॒ । दुः॒॑इ॒तात् । ऋ॒त॒॑वृ॒धः॒ । रक्ष᳚ । माकिः᳚ । नः॒ । अ॒घ॑शं᳚सः । ई॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्राह्मणासो हे ब्राह्मणाः पितरः ऋतावृधः ऋतस्य यज्ञस्य वा वर्धयितारः सोम्यासः सोमार्हाः सोमसंपादिनो वा तथाचयास्कः-सोम्याः सोमसंपादिनइति नोस्मान् रक्षत रक्षेत्युपरितनमेकवचनान्तं सत्यपिव्यवधाने बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते अध्याहार- स्याति जघन्यत्वात् । किं च अनेहसा अपापे द्यावापृथिवी द्यावापृथिव्यौ नोस्माकं शिवे सुखकृतौ भवतां पूषा पोषको देवोपि नोस्मान् दुरितात् दुष्कृतात्पातु रक्षतु । नोस्माकमघशंसः पापशंसः शत्रुरपिमाकिरीशत माईष्ट ॥ १० ॥

6.75.11
सु॒प॒र्णं व᳚स्ते मृ॒गो अ᳚स्या॒ दन्तो॒ गोभि॒ः संन᳚द्धा पतति॒ प्रसू᳚ता ।
यत्रा॒ नर॒ः सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष᳚व॒ः शर्म᳚ यंसन् ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः᳚ । गोभिः᳚ । सम्॑न᳚द्धा । प॒त॒ति॒ । प्र॑सू᳚ता ।
यत्र᳚ । नरः᳚ । सम् । च॒ । वि । च॒ । द्रव᳚न्ति । तत्र᳚ । अ॒स्मभ्य᳚म् । इष᳚वः । शर्म᳚ । यं॒स॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यामृचीषवः स्तूयन्ते सुपर्णं शोभनं वाजं वस्ते इयमिषुर्धारयति अस्याइषोः मृगोमृगावयवः शृंगं दन्तोभवति इषवः काश्चिद्दन्तमुखा- भवन्ति हि अथवा अस्या दन्तः मृगः शत्रून् मृगयमाणोभवति किं च गोभिः गोविकारैः स्नायुभिः सन्नद्धा सम्यक् बद्धा अथवा गौरिति ज्यानाम तया संबद्धा अत्रवचनव्यत्ययः तथाचनिगमः-वृक्षेवृक्षेनियतामीमयद्गौरिति । अस्यायमर्थः वृक्षेवृक्षे धनुषि धनुषि गौर्ज्यानिय- ता मीमयत् शब्दं करोतीति तथा च यास्कः-वृक्षे वृक्षे धनुषि धनुषि वृक्षोव्रश्चनात् वृत्वा क्षां तिष्ठतीतिवा क्षाक्षियतेर्निवासकर्मणो- नियतामीमयद्गौः शब्दंकरोति मीमयतिः शब्दकर्मेति । प्रसूता प्रेरिता सती पतति यत्र युद्धे नरः संच सहच विच पृथक् च द्रवन्तिचरन्ति तत्रास्मभ्यं इषवः शराः शर्म सुखं यंसन् प्रयच्छन्तु तथा च यास्कः-सुपर्णं वस्त इति वाजानभिप्रेत्य मृगमयोस्यादन्तोमृगयतेर्वागोभिः सन्नद्धापतति प्रसूतेति व्याख्यातं यत्र नराः संद्रवन्तिच तत्रास्मभ्यमिषवः शर्मशरणं प्रयच्छन्त्विति ॥ ११ ॥

6.75.12
ऋजी᳚ते॒ परि᳚ वृङ्धि॒ नो॑श्मा᳚ भवतु नस्त॒नूः ।
सोमो॒ अधि᳚ ब्रवीतु॒ नो॑दि᳚ति॒ः शर्म᳚ यच्छतु ॥
▶ पदपाठः (Word-by-word)
ऋजी᳚ते । परि᳚ । वृ॒ङ्धि॒ । नः॒ । अश्मा᳚ । भ॒व॒तु॒ । नः॒ । त॒नूः ।
सोमः᳚ । अधि᳚ । ब्र॒वी॒तु॒ । नः॒ । अदि᳚तिः । शर्म᳚ । य॒च्छ॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजीते ऋजुगच्छतीत्यृजीतिरिषुः हेइषो नोस्मान् परिवृङ् ग्धि परितो वर्धय नोस्माकं तनूः शरीरं अश्मा भवतु अश्मवदभेद्या दृढा भवतु किंच नोस्मभ्य सोमोधिव्रवीतु पक्षपातेन ब्रवीतु अदितिरपि शर्म सुखं यच्छतु ॥ १२ ॥

6.75.13
आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घना{4}॒ उप᳚ जिघ्नते ।
अश्वा᳚जनि॒ प्रचे᳚त॒सो॑श्वा᳚न्त्स॒मत्सु᳚ चोदय ॥
▶ पदपाठः (Word-by-word)
आ । ज॒ङ्घ॒न्ति॒ । सानु᳚ । ए॒षा॒म् । ज॒घना᳚न् । उप᳚ । जि॒घ्न॒ते॒ ।
अश्व᳚॑अजनि । प्र॑चे᳚तसः । अश्वा᳚न् । स॒मत्॑सु᳚ । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वाजनि अश्वानां क्षेप्त्रि कशे यया त्वया प्रचेतसः प्रकृष्टज्ञानाः सादिनः सारथयोवा एषामश्वानां सानु सानूनि सक्थीनि आजंघंति आघ्नंति जघनान् जघनानि उपजिघ्नंति सा त्वं समत्सु संग्रामेषु अश्वान् चोदय प्रेरय । तथाच यास्कः-आघ्नंति सानून्येषां सरणानि सक्थीनि सक्थिसचतेरासक्तोस्मिन् कायोजघनानि चोपघ्नंति जघनंजघन्यतेरश्वाजनिप्रचेतसः प्रवृद्धचेतसोश्वान् समत्सु समरणेषु संग्रामेषु चोदयेति ॥ १३ ॥

6.75.14
अहि᳚रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प᳚रि॒बाध᳚मानः ।
ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान्पुमा॒न्पुमां᳚सं॒ परि᳚ पातु वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
अहिः᳚॑इव । भो॒गैः । परि᳚ । ए॒ति॒ । बा॒हुम् । ज्यायाः᳚ । हे॒तिम् । प॒रि॒॑बाध᳚मानः ।
ह॒स्त॒॑घ्नः । विश्वा᳚ । व॒युना᳚नि । वि॒द्वान् । पुमा᳚न् । पुमां᳚सम् । परि᳚ । पा॒तु॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र धन्विनः प्रकोष्ठे बन्धनीयस्य हस्तघ्नस्य स्तुतिः हस्तघ्नः हस्ते हस्तसमीपे वर्तिनि प्रकोष्ठे स्थितः सन् ज्यया हन्यतइति हस्तघ्नः घञर्थेकविधानमिति कः ज्यायाः हेतिं ज्याहेतुकां हिंसां परिबाधमानः निवारयन् भोगैः शरीरेण वचनव्यत्ययः अहिरिव सर्पइव बाहुं प्रकोष्ठं लक्षणया बाहुशब्दः प्रकोष्ठे वर्तते पर्येति परिवेष्टयति किंच विश्वा विश्वानि वयुनानि ज्ञानानि ज्ञातव्यानि माया वयुनमिति तन्नामसु पाठात् विद्वान् जानन् पुमान् पौरुषोपेतः स्वयं पुमांसं धन्विनं विश्वतः सर्वतः परिपातु रक्षति तथाच यास्कः- अहिरिव भोगैः परिवेष्टयति बाहुं ज्यायावधात्परित्रायमाणोहस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् पुमान् पुरुमना भवति पंसतेर्वेति ॥ १४ ॥

6.75.15
आला᳚क्ता॒ या रुरु᳚शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख᳚म् ।
इ॒दं प॒र्जन्य᳚रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः᳚ ॥
▶ पदपाठः (Word-by-word)
आल᳚॑अक्ता । या । रुरु᳚॑शीर्ष्णी । अथो॒ इति᳚ । यस्याः᳚ । अयः᳚ । मुख᳚म् ।
इ॒दम् । प॒र्जन्य᳚॑रेतसे । इष्वै᳚ । दे॒व्यै । बृ॒हत् । नमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या इषुः आलाक्ता आलेन विषेणाक्ता रुरुशीर्ष्णी हन्तृशिरस्का अर्तेर्हिसाकर्मणोरुरुशब्दो त्पत्तिः शृंगशीर्ष्णी वा अथो किंच यस्याः इषोर्मुखं अयः अयोमयं भवति पर्जन्यरेतसे पर्जन्यः रेतोयस्याः सापर्जन्यरेताः तस्यै पर्जन्यकार्यभूतायै शरकांडस्य पर्जन्यजन्यत्वात् बृहत् बृहत्यै तस्मै इष्वै देव्यै इदं नमः क्रियतइति ॥ १५ ॥

6.75.16
अव᳚सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म᳚संशिते ।
गच्छा॒मित्रा॒न्प्र प᳚द्यस्व॒ मामीषां॒ कं च॒नोच्छि᳚षः ॥
▶ पदपाठः (Word-by-word)
अव᳚॑सृष्टा । परा᳚ । प॒त॒ । शर᳚व्ये । ब्रह्म᳚॑संशिते ।
गच्छ᳚ । अ॒मित्रा᳚न् । प्र । प॒द्य॒स्व॒ । मा । अ॒मीषा᳚म् । कम् । च॒न । उत् । शि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मसंशिते मंत्रेण तीक्ष्णीकृते शरव्ये हिंसाकुशले इषो त्वं अवसृष्टा क्षिप्ता परापत परागच्छ इतोदेशाद्गच्छ च अमित्रान् हिंसकान् प्रपद्यस्व प्राप्नुहि च अमीषाममित्राणां मध्ये कंचन कंचिदपि माउच्छिषः अवशिष्टं माकरु ॥ १६ ॥

6.75.17
यत्र᳚ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि᳚शि॒खा इ᳚व ।
तत्रा᳚ नो॒ ब्रह्म᳚ण॒स्पति॒रदि᳚ति॒ः शर्म᳚ यच्छतु वि॒श्वाहा॒ शर्म᳚ यच्छतु ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । बा॒णाः । स॒म्॑पत᳚न्ति । कु॒मा॒राः । वि॒शि॒खाः॑इ᳚व ।
तत्र᳚ । नः॒ । ब्रह्म᳚णः । पतिः᳚ । अदि᳚तिः । शर्म᳚ । य॒च्छ॒तु॒ । वि॒श्वाहा᳚ । शर्म᳚ । य॒च्छ॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र युद्धे कुमाराः विशिखाइव मुंडिताइव बाणाः संपतंति तत्र नोस्मभ्यं ब्रह्मणस्पतिः शर्म सुखं विश्वाहा सर्वदा यच्छतु अदितिश्च शर्म यच्छतु द्विरुक्तिरादरार्था ॥ १७ ॥

6.75.18 समानपद
मर्मा᳚णि ते॒ वर्म᳚णा छादयामि॒ सोम᳚स्त्वा॒ राजा॒मृते॒नानु᳚ वस्ताम् ।
उ॒रोर्वरी᳚यो॒ वरु᳚णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु᳚ दे॒वा म᳚दन्तु ॥
▶ पदपाठः (Word-by-word)
मर्मा᳚णि । ते॒ । वर्म᳚णा । छा॒द॒या॒मि॒ । सोमः᳚ । त्वा॒ । राजा᳚ । अ॒मृते᳚न । अनु᳚ । व॒स्ता॒म् ।
उ॒रोः । वरी᳚यः । वरु᳚णः । ते॒ । कृ॒णो॒तु॒ । जय᳚न्तम् । त्वा॒ । अनु᳚ । दे॒वाः । म॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् ते त्वदीयानिमर्माणि येषु स्थानेषु विद्धः सद्योम्रियते तानि मर्माणि वर्मणा कवचेन छादयामि सोमोराजा त्वा त्वां अनु मर्म- च्छादनानंतरममृतेन वस्तां आच्छादयतु । किंच वरुणोपि ते तुभ्यं उरोर्वरीयः उरुतरं सुखं कृणोतु करोतु । जयंतं त्वा त्वां देवाः सर्वेपि अनुमदन्तु अनुहृष्यन्तु ॥ १८ ॥

6.75.19 समानपद
यो न॒ः स्वो अर᳚णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति ।
दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त᳚रम् ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । स्वः । अर᳚णः । यः । च॒ । निष्ट्यः᳚ । जिघां᳚सति ।
दे॒वाः । तम् । सर्वे᳚ । धू॒र्व॒न्तु॒ । ब्रह्म᳚ । वर्म᳚ । मम᳚ । अन्त᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः स्वोज्ञातिः अरणः अरममाणः यश्च निष्ट्यः तिरोभूतः दूरेस्थितः नोस्मान् जिघांसति हन्तुमिच्छति तं देवाः सर्वे देवाः धूर्वन्तु हिंसन्तु ब्रह्म मंत्रोमम अंतरं शराणां निवारकं वर्म विद्यते ॥ १९ ॥

वासिष्ठे सप्तमे मंडले षडनुवाकाः तत्र प्रथमेनुवाके सप्तदश सूक्तानि तत्राग्निंनरइति पंचविं शत्यृचं प्रथमं शूक्तं अत्रेयमनुक्रमणिका- अग्निंपंचाधिका विराजोष्टादशाद्याइति सप्तमं मंडलं वसिष्ठो पश्यदित्युक्तत्वान्मंडलद्रष्टा वसिष्ठऋषिः आदितोष्टादश विराजरुयेका- दशकाः शिष्टा अनादेशपरिभाषया त्रिष्टुभः मंडलादिपरिभाषया अग्निर्देवता विश्वजितीदं सूक्तं आज्यशस्त्रं सूत्रितं च-विश्वजितोग्निं- नरइत्याज्यमिति । अत्रेश्चतुर्वीराख्ये चतूरात्रे चतुर्थेहनि इदमेवसूक्तमाज्यशस्त्रं सूत्र्यते हि-अग्निंनरइतिचतुर्थइति व्यूह्ळे दशरात्रे चतुर्थेहनि इदं सूक्तं जातवेदस्य निविद्धानं सूत्रितं च-अग्निंनरैत्याग्निमारुतमिति । महाव्रतेपीदमाज्यशस्त्रं तथैव पंचमारण्यके सूत्र्यते- आज्यप्रउगेविश्वजितइति । प्रातरनुवाके त्वमग्नेवसूनित्यादीनामनुष्टुभां स्थाने आद्यस्तृचः प्रक्षेपणीयः सूत्र्यते हि-दशमेहन्यनुष्टुभां- स्थानेग्निंनरोदीधितिभिररण्योरिति तृचमाग्नेये क्रताविति । आद्याः षळृचः तस्मिन्नेवाहनि आग्निमारुते शस्त्रे स्तोत्रियानुरूपार्थाः सूत्रितं चअग्निंनरोदीधितिभिररण्योरिति स्तोत्रियानुरूपाविति । मंडलादिहोमेप्येषा । आधाने तृतीयायामिष्टौ प्रेद्धइति स्विष्टकृतोनुवाक्या सूत्रितं च-प्रेद्धोअग्नइमोअग्नइति संयाज्ये इति । एवमन्यत्रापि दीक्षणीयादिषु स्विष्टकृतोनुवाक्या । प्रायणीयेष्टौ सेदग्निरग्नीनित्यादिके द्वे स्विष्टकृतो याज्यानुवाक्ये सूत्रितंच-सेदग्निरग्नीरत्यस्त्वन्यानिति द्वे संयाज्ये इति । आधाने तृतीयायामिष्टौ । इमोअग्नइति स्विष्टकृतो याज्या सूत्रितं च-इमोअग्नइति संयाज्ये इति । एवमन्यत्रापि दीक्षणीयादिषु एषा सौविष्टकृतीयाज्या प्रातरनुवाकाग्नेये क्रतौ त्रैष्टुभे छंदसि आश्विनशस्त्रे च त्वमग्नेसुहवइत्याद्याः पंचर्चः सूत्रितं च –त्वमग्नेसुहवोरण्वसंदृगिति ।