श्रवणम्

6.75.14
अहि᳚रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प᳚रि॒बाध᳚मानः ।
ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान्पुमा॒न्पुमां᳚सं॒ परि᳚ पातु वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
अहिः᳚॑इव । भो॒गैः । परि᳚ । ए॒ति॒ । बा॒हुम् । ज्यायाः᳚ । हे॒तिम् । प॒रि॒॑बाध᳚मानः ।
ह॒स्त॒॑घ्नः । विश्वा᳚ । व॒युना᳚नि । वि॒द्वान् । पुमा᳚न् । पुमां᳚सम् । परि᳚ । पा॒तु॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र धन्विनः प्रकोष्ठे बन्धनीयस्य हस्तघ्नस्य स्तुतिः हस्तघ्नः हस्ते हस्तसमीपे वर्तिनि प्रकोष्ठे स्थितः सन् ज्यया हन्यतइति हस्तघ्नः घञर्थेकविधानमिति कः ज्यायाः हेतिं ज्याहेतुकां हिंसां परिबाधमानः निवारयन् भोगैः शरीरेण वचनव्यत्ययः अहिरिव सर्पइव बाहुं प्रकोष्ठं लक्षणया बाहुशब्दः प्रकोष्ठे वर्तते पर्येति परिवेष्टयति किंच विश्वा विश्वानि वयुनानि ज्ञानानि ज्ञातव्यानि माया वयुनमिति तन्नामसु पाठात् विद्वान् जानन् पुमान् पौरुषोपेतः स्वयं पुमांसं धन्विनं विश्वतः सर्वतः परिपातु रक्षति तथाच यास्कः- अहिरिव भोगैः परिवेष्टयति बाहुं ज्यायावधात्परित्रायमाणोहस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् पुमान् पुरुमना भवति पंसतेर्वेति ॥ १४ ॥