श्रवणम्

6.75.3
व॒क्ष्यन्ती॒वेदा ग᳚नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना ।
योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम᳚ने पा॒रय᳚न्ती ॥
▶ पदपाठः (Word-by-word)
व॒क्ष्यन्ती᳚॑इव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण᳚म् । प्रि॒यम् । सखा᳚यम् । प॒रि॒॑स॒स्व॒जा॒ना ।
योषा᳚॑इव । शि॒ङ्क्ते॒ । वि॑त᳚ता । अधि᳚ । धन्व᳚न् । ज्या । इ॒यम् । सम᳚ने । पा॒रय᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वत्र ऋग्द्वयेन कवचधनुषी स्तुते अत्र ज्यास्तुतिः इयं ज्या समने संग्रामे धन्वन् धन्वनि अधीति सप्तम्यर्थानुवादः । वितता विस्तृता पारयन्ती पारं नयन्ती प्रियं प्रियकरं वाक्यं वक्ष्यन्ती इव कर्णं धन्विनो राज्ञः कर्णप्रदेशं आगनीगन्ति आगच्छति । इदिति पूरणः योषा नारी सखायं पतिमिव परिषस्वजाना इषुं परिष्वजमाना शिंक्ते शब्दायते च । तथाच यास्कः-वक्ष्यन्तीवागच्छति कर्णंप्रियमिव सखाय- मिषुं परिष्वजमाना योषेव शिंक्ते शब्दंकरोति वितताधिधनुषिज्येयंसमने संग्रामे पारयन्ती पारं नयन्तीति ॥ ३ ॥