षष्ठं मण्डलम् - सूक्तम् 8

7 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: वैश्वानरोग्निः छन्दः: जगती

सूक्तम् 6.8 - सम्पूर्णम्

1 / 7
ऋक्: 6.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
6.8.1
पृ॒क्षस्य॒ वृष्णो᳚ अरु॒षस्य॒ नू सह॒ः प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः ।
वै॒श्वा॒न॒राय᳚ म॒तिर्नव्य᳚सी॒ शुचि॒ः सोम᳚ इव पवते॒ चारु᳚र॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
पृ॒क्षस्य᳚ । वृष्णः᳚ । अ॒रु॒षस्य᳚ । नु । सहः᳚ । प्र । नु । वो॒च॒म् । वि॒दथा᳚ । जा॒त॑वे᳚दसः ।
वै॒श्वा॒न॒राय᳚ । म॒तिः । नव्य᳚सी । शुचिः᳚ । सोमः᳚॑इव । प॒व॒ते॒ । चारुः᳚ । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृक्षस्य संपृक्तस्य व्याप्तस्य यद्वा पृक्षंहविर्लक्षणमन्नंतद्वतः वृष्णः वर्षितुःअरुषस्य आरोचमानस्य जातवेदसः जातानांवेदितुर्वैश्वानराग्नेः सहोबलं अभिभवनसमर्थं विदथा विदथेयज्ञे नु क्षिप्रं प्रवोचं प्रब्रवीमि प्रकर्षेणस्तौमीत्यर्थः एकोनुशब्दःपूरकः नव्यसी नवतराशुचिर्निर्म- ला यद्वा स्तोतॄणां शोधयित्री चारुः शॊभना मतिर्मननीयास्तुतिश्च अस्मैवैश्वानरायाग्नये पवते मत्सकाशात्स्रवति स्वयमेवनिर्गच्छतीत्य- र्थः सोमइव यथासोमोदशापवित्रात्स्रवति तद्वत् ॥ १ ॥

6.8.2 समानपद
स जाय᳚मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र᳚त॒पा अ᳚रक्षत ।
व्य१॒᳚न्तरि᳚क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म᳚हि॒ना नाक᳚मस्पृशत् ॥
▶ पदपाठः (Word-by-word)
सः । जाय᳚मानः । प॒र॒मे । वि॑ओ᳚मनि । व्र॒तानि᳚ । अ॒ग्निः । व्र॒त॒॑पाः । अ॒र॒क्ष॒त॒ ।
वि । अ॒न्तरि᳚क्षम् । अ॒मि॒मी॒त॒ । सु॒॑क्रतुः᳚ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक᳚म् । अ॒स्पृ॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवैश्वानरोग्निः व्रतपाः व्रतस्यपालकः परमे उत्कृष्टे व्योमनि व्योम्न्याकाशे जायमानः सूर्यात्मना प्रादुर्भवन् व्रतानि कर्माणि लौकि- कानि वैदिकानिच अरक्षत रक्षति अंतरिक्षंच व्यमिमीत एतदुपलक्षितान् त्रील्लोकान्निर्मितवान् तथा सुक्रतुः शोभनकर्मा वैश्वानरोग्निः महिना स्वमहिम्ना तेजसा नाकं द्युलोकं अस्पृशत् स्पृशतिस्म ॥ २ ॥

6.8.3
व्य᳚स्तभ्ना॒द्रोद᳚सी मि॒त्रो अद्भु᳚तो॑न्त॒र्वाव᳚दकृणो॒ज्ज्योति᳚षा॒ तमः᳚ ।
वि चर्म᳚णीव धि॒षणे᳚ अवर्तयद्वैश्वान॒रो विश्व᳚मधत्त॒ वृष्ण्य᳚म् ॥
▶ पदपाठः (Word-by-word)
वि । अ॒स्त॒भ्ना॒त् । रोद᳚सी॒ इति᳚ । मि॒त्रः । अद्भु᳚तः । अ॒न्तः॒॑वाव᳚त् । अ॒कृ॒णो॒त् । ज्योति᳚षा । तमः᳚ ।
वि । चर्म᳚णी इ॒वेति॒ चर्म᳚णी॑इव । धि॒षणे॒ इति᳚ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व᳚म् । अ॒ध॒त्त॒ । वृष्ण्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोमित्रभूतः सर्वेषांअद्भुतोमहानाश्चर्यभूतोवा वैश्वानरोग्निः रोदसी द्यावापृथिव्यौ व्यस्तभ्रात् विशेषेणस्तम्भितवान् यथा अधोनपततः तथा स्वकीयदेशेस्थापितवानित्यर्थः तथा ज्योतिषा तेजसा तमः अंधकारंच अंतर्वावत् अन्तर्हितं तिरोहितमकृणोदकरोत् वावदिति वातेर्गतिकर्मणोयङ्लुगन्तस्यरूपं अपिच धिषणे धारयित्र्यौ द्यावापृथिव्यौ चर्मणीइव यथा पशोर्विशसिताद्वेचर्मणीशोषणार्थं- प्रसारयतितथाव्यावर्तयत् विवृते विस्तृते अकरोत् किंबहुना वैश्वानरोयमग्निः विश्वं सर्वं वृष्णयंवीर्यमधत्त धत्ते धारयति ॥ ३ ॥

6.8.4
अ॒पामु॒पस्थे᳚ महि॒षा अ᳚गृभ्णत॒ विशो॒ राजा᳚न॒मुप᳚ तस्थुरृ॒ग्मिय᳚म् ।
आ दू॒तो अ॒ग्निम᳚भरद्वि॒वस्व᳚तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । उ॒प॑स्थे᳚ । म॒हि॒षाः । अ॒गृ॒भ्ण॒त॒ । विशः᳚ । राजा᳚नम् । उप᳚ । त॒स्थुः॒ । ऋ॒ग्मिय᳚म् ।
आ । दू॒तः । अ॒ग्निम् । अ॒भ॒र॒त् । वि॒वस्व᳚तः । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा᳚ । प॒रा॒॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपइत्यन्तरिक्षनाम अपामन्तरिक्षस्य उपस्थे उपस्थाने मध्ये महिषाः महन्नामैतत् महान्तोमरुतः अगृभ्णत अगृह्णन् इमंवैश्वानंरवैद्यु- तात्मनावर्तमानमजानन्नित्यर्थः गृहीत्वाच विशः प्रजाः राजानं स्वामिनं ऋग्मियमर्चनीयं उपतस्थुरस्तुवन् अपिचेमंवैश्वानरं अग्निं पुरा सूर्यसमीपे विद्यमानं दूतः वेगवान् देवानांदूतोवा मातरिश्वा वायुः परावतोदूरदेशात् विवस्वतआदित्यात् आभरत् इमंलोकंप्रत्याजहार ॥ ४ ॥

6.8.5
यु॒गेयु᳚गे विद॒थ्यं᳚ गृ॒णद्भ्यो॑ग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य᳚सीम् ।
प॒व्येव᳚ राजन्न॒घशं᳚समजर नी॒चा नि वृ᳚श्च व॒निनं॒ न तेज᳚सा ॥
▶ पदपाठः (Word-by-word)
यु॒गे॑यु᳚गे । वि॒द॒थ्य᳚म् । गृ॒णत्॑भ्यः᳚ । अग्ने᳚ । र॒यिम् । य॒शस᳚म् । धे॒हि॒ । नव्य᳚सीम् ।
प॒व्या॑इ᳚व । रा॒ज॒न् । अ॒घ॑शं᳚सम् । अ॒ज॒र॒ । नी॒चा । नि । वृ॒श्च॒ । व॒निन᳚म् । न । तेज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने युगेयुगे कालेकाले विदथ्यं विदथोयज्ञः तदर्हंत्वामुद्दिश्य नव्यसीं नवतरांस्तुतिं गृणद्भ्यः उच्चारयितृभ्योस्मभ्यं रयिं धनं यशसं यशस्विनं पुत्रंच धेहि विधेहि कुरु किंच हेराजन् राजमान अजर जरारहिताग्ने पव्येव वज्रेणेव आत्मीयेनतेजसा वनिनंन वृक्षमिव अघशं- सं अघस्यानर्थस्यशंसितारं शत्रुं नीचा नीचीनः न्यग्भूतोयथाभवतितथा निवृश्च निजहि ॥ ५ ॥

6.8.6
अ॒स्माक᳚मग्ने म॒घव᳚त्सु धार॒याना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् ।
व॒यं ज᳚येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज᳚मग्ने॒ तवो॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अ॒ग्ने॒ । म॒घव᳚त्॑सु । धा॒र॒य॒ । अना᳚मि । क्ष॒त्रम् । अ॒जर᳚म् । सु॒॑वीर्य᳚म् ।
व॒यम् । ज॒ये॒म॒ । श॒तिन᳚म् । स॒ह॒स्रिण᳚म् । वैश्वा᳚नर । वाज᳚म् । अ॒ग्ने॒ । तव᳚ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अस्माकं सप्तम्यर्थेषष्ठी अस्मासु मघवत्सु हविर्लक्षणेनधनेनयुक्तेषु क्षत्रं धनं धारय स्थापय कीदृशं अनामि अनमनीयमनपहार्य- मजरंजरारहितमनश्वरं सुवीर्यं शोभनवीर्योपेतं किंच हेवैश्वानराग्ने तवोतिभिः त्वत्संबन्धिभीरक्षणैः वयं शतिनं शतसंख्यायुक्तं शत- पुरुषयुक्तंवा तथा सहस्रिणं वाजमन्नं जयेम लभेमहि ॥ ६ ॥

6.8.7
अद᳚ब्धेभि॒स्तव᳚ गो॒पाभि᳚रिष्टे॒॑स्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् ।
रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚ अग्ने॒ वैश्वा᳚नर॒ प्र च᳚ तारी॒ः स्तवा᳚नः ॥
▶ पदपाठः (Word-by-word)
अद᳚ब्धेभिः । तव᳚ । गो॒पाभिः᳚ । इ॒ष्टे॒ । अ॒स्माक᳚म् । पा॒हि॒ । त्रि॒॑स॒ध॒स्थ॒ । सू॒रीन् ।
रक्ष᳚ । च॒ । नः॒ । द॒दुषा᳚म् । शर्धः᳚ । अ॒ग्ने॒ । वैश्वा᳚नर । प्र । च॒ । ता॒रीः॒ । स्तवा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइष्टे यष्टव्य एषणीयवा त्रिषधस्थ त्रिषुलोकेषुसहावस्थायिन् यद्वा आहवनीयादिषुत्रिष्वायतनेषुयष्टव्यैर्देवैः सहावतिष्ठमानाग्ने अद- ब्धेभिः केनाप्यहिंसितैः तवत्वदीयैर्गोपाभिः गोपकैः रक्षकैस्तेजोभिः अस्माकं सूरीन् अस्मदीयान् स्तोतॄन् पाहि रक्ष हेवैश्वानराग्ने ददुषां हवींषिदत्तवतां नोस्माकं शर्धोबलं रक्षच स्तवान स्तूयमानस्त्वं प्रचतारीः प्रवर्धयच ॥ ७ ॥

अहश्चेतिसप्तर्चंनवमंसूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकं अनुक्रान्तंच अहश्चेति । व्यूह्ळेदशरात्रेषष्ठेहनिआग्निमारुतशस्त्रेवैश्वानर- निविद्धानमिदं सूत्र्यतेहि-अहश्चकृष्णंमध्वो वोनामेति ।