षष्ठं मण्डलम् - सूक्तम् 19

13 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.19 - सम्पूर्णम्

1 / 13
ऋक्: 6.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
6.19.1
म॒हा{4} इन्द्रो᳚ नृ॒वदा च᳚र्षणि॒प्रा उ॒त द्वि॒बर्हा᳚ अमि॒नः सहो᳚भिः ।
अ॒स्म॒द्र्य᳚ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ᳚तः क॒र्तृभि᳚र्भूत् ॥
▶ पदपाठः (Word-by-word)
म॒हान् । इन्द्रः᳚ । नृ॒॑वत् । आ । च॒र्ष॒णि॒॑प्राः । उ॒त । द्वि॒॑बर्हाः᳚ । अ॒मि॒नः । सहः᳚॑भिः ।
अ॒स्म॒द्र्य᳚क् । व॒वृ॒धे॒ । वी॒र्या᳚य । उ॒रुः । पृ॒थुः । सु॑कृ᳚तः । क॒र्तृ॑भिः᳚ । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृवत् यथा नेताराजाभूत्यादीनांकामानांपूरयितातद्वत् चर्षणिप्राः चर्षणीनां स्तोतृजनानांकामानांपूरकः महान् प्रभूतइन्द्रआगच्छतु आइत्युपसर्गदर्शनाद्गच्छत्वित्याख्यातस्याध्याहारः उतापिच द्विबार्हाः द्वयोर्लोकयोःपरिवृढः सहोभिः शत्रुबलैः अमिनः अहिंसनीयइन्द्रः अस्मन्द्यक् अस्मदभिमुखंयथाभवतितथा वीर्याय वीरकर्मकरणाय ववृधे वर्धते उरुः शरीरेणविस्तीर्णः पृथुगुणैः प्रथितः कर्तृभिर्यजमानैः सुकृतोभूत् सुष्ठुपरिचरितोभवति ॥ १ ॥

6.19.2
इन्द्र᳚मे॒व धि॒षणा᳚ सा॒तये᳚ धाद्बृ॒हन्त᳚मृ॒ष्वम॒जरं॒ युवा᳚नम् ।
अषा᳚ळ्हेन॒ शव᳚सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्यो वा᳚वृ॒धे असा᳚मि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । ए॒व । धि॒षणा᳚ । सा॒तये᳚ । धा॒त् । बृ॒हन्त᳚म् । ऋ॒ष्वम् । अ॒जर᳚म् । युवा᳚नम् ।
अषा᳚ळ्हेन । शव᳚सा । शू॒शु॒॑वांस᳚म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा᳚मि ॥
▶ सायणभाष्यम् (Sayana Commentary)

धिषणा अस्मदीयास्तुतिः सातये दानाय इन्द्रमेवधात् धारयति कीदृशं बृहन्तं महान्तं ऋष्वं गन्तारं अजरं जरारहितं युवानं नित्यत- रुणं अषाह्ळेन शत्रुभिरनभिभूतेन शवसा बलेन शूशुवांसं प्रवृद्धं श्वयतेरिदंरूपं यइन्द्रः सद्यश्चित् सद्यएवजातमात्रःसन् असामि अनल्पं अधिकंयथाभवतितथा ववृधे वर्धते ॥ २ ॥

6.19.3
पृ॒थू क॒रस्ना᳚ बहु॒ला गभ᳚स्ती अस्म॒द्र्य१॒᳚क्सं मि᳚मीहि॒ श्रवां᳚सि ।
यू॒थेव᳚ प॒श्वः प᳚शु॒पा दमू᳚ना अ॒स्मा{4} इ᳚न्द्रा॒भ्या व᳚वृत्स्वा॒जौ ॥
▶ पदपाठः (Word-by-word)
पृ॒थू इति᳚ । क॒रस्ना᳚ । ब॒हु॒ला । गभ᳚स्ती॒ इति᳚ । अ॒स्म॒द्र्य᳚क् । सम् । मि॒मी॒हि॒ । श्रवां᳚सि ।
यू॒था॑इ᳚व । प॒श्वः । प॒शु॒॑पाः । दमू᳚नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं पृथूविस्तीर्णौ करस्ना कर्मणांकर्तारौ बहुला बहुप्रदौ गभस्ती त्वदीयौबाहू श्रवांस्यन्नानि दातुमितिशेषः अस्मद्भ्यक अस्मद- भिमुखं संमिमीहि कुरु किंच हेइन्द्र दमूनाः दान्तमनास्त्वं आजौ संग्रामे अस्मानभ्याववृत्स्व अभ्यावर्तस्व तत्रदृष्टान्तः—पशुपाः पशूनां- पालकः पश्वः पशूनांयूथेव यूथानियथावर्तयतितद्वत् ॥ ३ ॥

6.19.4
तं व॒ इन्द्रं᳚ च॒तिन᳚मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम ।
यथा᳚ चि॒त्पूर्वे᳚ जरि॒तार᳚ आ॒सुरने᳚द्या अनव॒द्या अरि᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । इन्द्र᳚म् । च॒तिन᳚म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒॑यन्तः᳚ । हु॒वे॒म॒ ।
यथा᳚ । चि॒त् । पूर्वे᳚ । ज॒रि॒तारः᳚ । आ॒सुः । अने᳚द्याः । अ॒न॒व॒द्याः । अरि᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नूनमद्य इहास्मिन्यज्ञे वाजयन्तः अन्नमिच्छन्तोवयं स्तोतारः शाकैः शक्तैः समर्थैः अस्य तवसहायैर्मरुद्भिः सहितं चतिनं शत्रूणांचा- तकं नाशकमित्यर्थः हेइन्द्र परमेश्वरं तंवः प्रसिद्धंत्वां हुवेम स्तुमः यथाचिद्यथैव पूर्वे पुरातनाः जरितारः स्तोतारः अनेद्याः अनिंद्याः अनवद्याः पापरहिताः अरिष्टाः अहिंसिताश्च आसुः बभूवुः हेइन्द्र त्वत्प्रसादाद्वयमपि तथैवभवेमेत्यर्थः ॥ ४ ॥

6.19.5
धृ॒तव्र᳚तो धन॒दाः सोम᳚वृद्ध॒ः स हि वा॒मस्य॒ वसु᳚नः पुरु॒क्षुः ।
सं ज᳚ग्मिरे प॒थ्या॒३॒᳚ रायो᳚ अस्मिन्त्समु॒द्रे न सिन्ध᳚वो॒ याद᳚मानाः ॥
▶ पदपाठः (Word-by-word)
धृ॒त॑व्र᳚तः । ध॒न॒॑दाः । सोम᳚॑वृद्धः । सः । हि । वा॒मस्य᳚ । वसु᳚नः । पु॒रु॒॑क्षुः ।
सम् । ज॒ग्मि॒रे॒ । प॒थ्याः᳚ । रायः᳚ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध᳚वः । याद᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखल्विन्द्रः धृतव्रतोधनकर्मा धनदाः सएवधनप्रदः कीदृशस्यधनस्येत्याकांक्षायां उपसर्जनीभूतस्यापिधन्स्यविशेषणे वामस्य वसुनइति वामस्य वननीयस्य वसुनः श्रेष्ठस्य यद्वा वसुनोधनस्यस्वामीतिशेषः सोमवृद्धः सएवसोमेप्रवृद्धः पुरुक्षुः बह्वन्नः सएव अस्मि- न्निन्द्रएव पथ्याः स्तोतॄणांहितानि रायोधनानि संजग्मिरे संगच्छन्ते तत्रदृष्ठान्तः—सिन्धवोनद्यः समुद्रेन यथासमुद्रे यादमानाअभिगच्छ- न्तः तद्वत् ॥ ५ ॥

6.19.6
शवि᳚ष्ठं न॒ आ भ᳚र शूर॒ शव॒ ओजि᳚ष्ठ॒मोजो᳚ अभिभूत उ॒ग्रम् ।
विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु᳚षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
शवि᳚ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः᳚ । ओजि᳚ष्ठम् । ओजः᳚ । अ॒भि॒॑भू॒ते॒ । उ॒ग्रम् ।
विश्वा᳚ । द्यु॒म्ना । वृष्ण्या᳚ । मानु᳚षाणाम् । अ॒स्मभ्य᳚म् । दाः॒ । ह॒रि॒॑वः॒ । मा॒द॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर विक्रान्तेन्द्र शविष्ठं बलवत्तमं शबोबलं नोस्मभ्यं आभराहर हेअभिभूते शत्रूणामभिभावुकेन्द्र उग्रमप्रसह्यं ओजिष्ठमोजस्वितमं ओजोदीप्तिमस्मभ्यंआभर विश्वा विश्वानि सर्वाणि वृष्ट्या वृष्ट्यानि सेचनसमर्थानि द्युम्ना द्युम्नानिद्योतमानानि यानिधनानि मानुषाणां मनुष्याणां भोग्यतयाकल्पितानि हेहरिवः हरिवन्निन्द्र तानिधनानि मादयध्यै अस्मान्मादितुं अस्मभ्यंदाः प्रयच्छ ॥ ६ ॥

6.19.7
यस्ते॒ मदः᳚ पृतना॒षाळमृ᳚ध्र॒ इन्द्र॒ तं न॒ आ भ᳚र शूशु॒वांस᳚म् ।
येन᳚ तो॒कस्य॒ तन᳚यस्य सा॒तौ मं᳚सी॒महि᳚ जिगी॒वांस॒स्त्वोता᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । मदः᳚ । पृ॒त॒ना॒षाट् । अमृ᳚ध्रः । इन्द्र᳚ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒॑वांस᳚म् ।
येन᳚ । तो॒कस्य᳚ । तन᳚यस्य । सा॒तौ । मं॒सी॒महि᳚ । जि॒गी॒वांसः᳚ । त्वा॑ऊ᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृतनाषाट् शत्रुसेनानामभिभविता अमृध्रः अहिंसितः योमदोहर्षः हेइन्द्र ते त्वयादेयः शूशुवांसं प्रवृद्धं तं मदं नोस्मभ्यमभराहर त्वो- तास्त्वयारक्षिताः जिगीवांसोजितवन्तोवयं तोकस्य् पुत्रस्य तनयस्य तत्पुत्रस्यच सातौ लाभेनिमित्तभूतेसति येनहर्षेण मंसीमहि त्वांस्तु- वीमहि तमाभरेतिपूर्वेणान्वयः ॥ ७ ॥

6.19.8 समानपद
आ नो᳚ भर॒ वृष᳚णं॒ शुष्म᳚मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् ।
येन॒ वंसा᳚म॒ पृत᳚नासु॒ शत्रू॒न्तवो॒तिभि᳚रु॒त जा॒मी{4}रजा᳚मीन् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । भ॒र॒ । वृष᳚णम् । शुष्म᳚म् । इ॒न्द्र॒ । ध॒न॒॑स्पृत᳚म् । शू॒शु॒॑वांस᳚म् । सु॒॑दक्ष᳚म् ।
येन᳚ । वंसा᳚म । पृत᳚नासु । शत्रू᳚न् । तव᳚ । ऊ॒ति॑भिः᳚ । उ॒त । जा॒मीन् । अजा᳚मीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं वृषणं वर्षितारं शुष्मं सेनालक्षणंबलं नोस्मभ्यं आभराहर कीदृशं धनस्पृतं धनस्यपालकं शूशुवांसं प्रवृद्धं सुदक्षं शोभनबलं हेइन्द्र तवोतिभिः त्वदीयाभीरक्षाभिः पृतनासु संग्रामेषु पृतनाइतिसंग्रामनाम येनबलेन शत्रून्वंसाम हनाम उतेत्यत्रभिन्नक्रमः जामीन् बन्धून् उतापिच अजामीन् शत्रूंश्च येनशुष्मेण वंसाम तंशुष्ममाभरेतिपूर्वेणसंबन्धः ॥ ८ ॥

6.19.9 समानपद
आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद᳚ध॒रादा पु॒रस्ता᳚त् ।
आ वि॒श्वतो᳚ अ॒भि समे᳚त्व॒र्वाङिन्द्र᳚ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । शुष्मः᳚ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता᳚त् ।
आ । वि॒श्वतः᳚ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र᳚ । द्यु॒म्नम् । स्वः᳚॑वत् । धे॒हि॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृषभः वर्षिता ते त्वदीयं शुष्मोबलं अर्वाङस्मदभिमुखःसन् पश्चात् पश्चिमभागात् एतु आगच्छतु उत्तरादुत्तरभागादागच्छतु अधरा दक्षिणाच्चएतु पुरस्तात् पूर्वभागाच्चगच्छतु विश्वतः सर्वस्माद्दिग्भागात् अभि अस्मानभिलक्ष्यआसमेतु सम्यगागच्छतु हेइन्द्र त्वं स्वर्वत् सुखयुक्तं द्युम्नं धनं अस्मे अस्मभ्यं धेहि प्रयच्छ ॥ ९ ॥

6.19.10
नृ॒वत्त᳚ इन्द्र॒ नृत᳚माभिरू॒ती वं᳚सी॒महि᳚ वा॒मं श्रोम᳚तेभिः ।
ईक्षे॒ हि वस्व᳚ उ॒भय᳚स्य राज॒न्धा रत्नं॒ महि᳚ स्थू॒रं बृ॒हन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
नृ॒॑वत् । ते॒ । इ॒न्द्र॒ । नृ॑त᳚माभिः । ऊ॒ती । वं॒सी॒महि᳚ । वा॒मम् । श्रोम᳚तेभिः ।
ईक्षे᳚ । हि । वस्वः᳚ । उ॒भय᳚स्य । रा॒ज॒न् । धाः । रत्न᳚म् । महि᳚ । स्थू॒रम् । बृ॒हन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृवत् मनुष्यैःपरिचारकजनैर्युक्तं श्रोमतेभिः श्रोतव्यैर्यशोभिः सहितं वामं वननीयंधनं हेइन्द्र ते त्वत्तः न्रुतमाभिः नेतृतमाभिः ऊती- ऊतिभीरक्षाभिः वंसीमहि वयंसंभजेमहि हियस्मात्कारणात् हेराजन् राजमानेन्द्र त्वं उभयस्य पार्थिवस्यदिव्यस्यच वस्वोधनस्य ईक्षे ईशिषे तस्मात् कारणात् महि महान्तं स्थूरं विपुलं बृहन्तं गुणैः परिवृढं रत्नं रमणीयं धनं अत्ररत्नशब्दःपुल्लिंगः धाः धेहि ॥ १० ॥

6.19.11
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक᳚वारिं दि॒व्यं शा॒समिन्द्र᳚म् ।
वि॒श्वा॒साह॒मव᳚से॒ नूत᳚नायो॒ग्रं स᳚हो॒दामि॒ह तं हु᳚वेम ॥
▶ पदपाठः (Word-by-word)
म॒रुत्व᳚न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक᳚व॑अरिम् । दि॒व्यम् । शा॒सम् । इन्द्र᳚म् ।
वि॒श्व॒॑सह᳚म् । अव᳚से । नूत᳚नाय । उ॒ग्रम् । स॒हः॒॑दाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहास्मिन्यज्ञे नूतनाय अभिनवाय अवसे रक्षणाय तं प्रसिद्धं इन्द्रं हुवेम स्तुमः आह्वयामोवा कीदृशं मरुत्वंतं मरुद्भिर्युक्तं वृषभं का- मानांवर्षितारं ववृधानं प्रवृद्धं अकवारिं अकुत्सितशत्रुंदिव्यं द्योतमानं शासं शासितारं विश्वसहं विश्वस्यलोकस्याभिभवितारं उग्रमो- जस्विनं सहोदां बलप्रदं ॥ ११ ॥

6.19.12
जनं᳚ वज्रि॒न्महि᳚ चि॒न्मन्य᳚मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि᳚ ।
अधा॒ हि त्वा᳚ पृथि॒व्यां शूर᳚सातौ॒ हवा᳚महे॒ तन᳚ये॒ गोष्व॒प्सु ॥
▶ पदपाठः (Word-by-word)
जन᳚म् । व॒ज्रि॒न् । महि᳚ । चि॒त् । मन्य᳚मानम् । ए॒भ्यः । नृ॑भ्यः᳚ । र॒न्ध॒य॒ । येषु᳚ । अस्मि᳚ ।
अध᳚ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर᳚॑सातौ । हवा᳚महे । तन᳚ये । गोषु᳚ । अ॒प्॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषु येषांनृणांमध्ये अहमस्मि एकोभवामि हेवज्रिन् वज्रवन्निन्द्र त्वं एभ्योनृभ्योमनुष्येभ्यः महि महदत्यन्तमात्मानंमन्यमानंजनं बहु- मन्यमानमित्यर्थः रन्धय वशीकुरु चिदिति पादपूरणः अधाधुना पृथिव्यां भूम्यां शूरसातौ युद्धे प्रवृत्तेसति तनये पुत्रेनिमित्तेच गोषु प- शुषु अप्सु उदकेषुचनिमित्तेषु हेइन्द्र त्वा द्युलोकेस्थितं त्वां हवामहे वयमाह्वयामः ॥ १२ ॥

6.19.13
व॒यं त᳚ ए॒भिः पु᳚रुहूत स॒ख्यैः शत्रो᳚ःशत्रो॒रुत्त᳚र॒ इत्स्या᳚म ।
घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म᳚देम बृह॒ता त्वोता᳚ः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । ए॒भिः । पु॒रु॒॑हू॒त॒ । स॒ख्यैः । शत्रोः᳚॑शत्रोः । उत्॑त᳚रे । इत् । स्या॒म॒ ।
घ्नन्तः᳚ । वृ॒त्राणि᳚ । उ॒भया᳚नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वा॑ऊ᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुहूत बहुभिराहूतेन्द्र एभिः सिद्धैः सख्यैः स्तोत्रलक्षणैः सखिकर्मभिः ते त्वयासहवयं उभयानि जामिरूपाण्यजामिरूपाणि वृत्रा- ण्यमित्राणि घ्रन्तः हिसन्तः शत्रोःशत्रोः सर्वस्माच्छत्रोउत्तरइत्स्याम अधिकाएवभवेम हेशूर विक्रान्तेन्द्र त्वोताः वयं त्वयारक्षिताःसन्तः बृहता महता राया धनेन मदेम हृष्याम ॥ १३ ॥

द्यौर्नयइन्द्रेतित्रयोदर्शर्चंपंचमंसूक्तं भरद्वाजस्यार्षमैन्द्रं त्रैष्टुभं विपिप्रोरित्येषासप्तमी दशाक्षरचतुष्टययुक्ताविराट् अनुक्रम्यतेच—द्यौर्न- विपिप्रोर्विराडिति पृष्ठ्यषडहस्यषष्ठेहनितृतीयसवने उक्थ्यस्तोत्राणि यदिद्विपदासुस्तुवीरन् यदिवाग्निष्टोमसंस्थः स्यात् तदानीं माध्यं- दिनसवने अच्छावाकः स्वशस्त्रे आरंभणीयाभ्यऊर्ध्वमेतत् सूक्तंशंसेत् सूत्रितंच—द्यौर्नयइन्द्रेत्यच्छावाकइति इदमेवसूक्तमिन्द्राविष्णोरु- क्त्रान्तिनाम्न्येकाहेनिष्केवल्यनिविद्धानं द्यौर्नयइन्द्रेतिमाध्यंदिनइति ।