श्रवणम्

6.19.8 समानपद
आ नो᳚ भर॒ वृष᳚णं॒ शुष्म᳚मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् ।
येन॒ वंसा᳚म॒ पृत᳚नासु॒ शत्रू॒न्तवो॒तिभि᳚रु॒त जा॒मी{4}रजा᳚मीन् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । भ॒र॒ । वृष᳚णम् । शुष्म᳚म् । इ॒न्द्र॒ । ध॒न॒॑स्पृत᳚म् । शू॒शु॒॑वांस᳚म् । सु॒॑दक्ष᳚म् ।
येन᳚ । वंसा᳚म । पृत᳚नासु । शत्रू᳚न् । तव᳚ । ऊ॒ति॑भिः᳚ । उ॒त । जा॒मीन् । अजा᳚मीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं वृषणं वर्षितारं शुष्मं सेनालक्षणंबलं नोस्मभ्यं आभराहर कीदृशं धनस्पृतं धनस्यपालकं शूशुवांसं प्रवृद्धं सुदक्षं शोभनबलं हेइन्द्र तवोतिभिः त्वदीयाभीरक्षाभिः पृतनासु संग्रामेषु पृतनाइतिसंग्रामनाम येनबलेन शत्रून्वंसाम हनाम उतेत्यत्रभिन्नक्रमः जामीन् बन्धून् उतापिच अजामीन् शत्रूंश्च येनशुष्मेण वंसाम तंशुष्ममाभरेतिपूर्वेणसंबन्धः ॥ ८ ॥