श्रवणम्

6.19.12
जनं᳚ वज्रि॒न्महि᳚ चि॒न्मन्य᳚मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि᳚ ।
अधा॒ हि त्वा᳚ पृथि॒व्यां शूर᳚सातौ॒ हवा᳚महे॒ तन᳚ये॒ गोष्व॒प्सु ॥
▶ पदपाठः (Word-by-word)
जन᳚म् । व॒ज्रि॒न् । महि᳚ । चि॒त् । मन्य᳚मानम् । ए॒भ्यः । नृ॑भ्यः᳚ । र॒न्ध॒य॒ । येषु᳚ । अस्मि᳚ ।
अध᳚ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर᳚॑सातौ । हवा᳚महे । तन᳚ये । गोषु᳚ । अ॒प्॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषु येषांनृणांमध्ये अहमस्मि एकोभवामि हेवज्रिन् वज्रवन्निन्द्र त्वं एभ्योनृभ्योमनुष्येभ्यः महि महदत्यन्तमात्मानंमन्यमानंजनं बहु- मन्यमानमित्यर्थः रन्धय वशीकुरु चिदिति पादपूरणः अधाधुना पृथिव्यां भूम्यां शूरसातौ युद्धे प्रवृत्तेसति तनये पुत्रेनिमित्तेच गोषु प- शुषु अप्सु उदकेषुचनिमित्तेषु हेइन्द्र त्वा द्युलोकेस्थितं त्वां हवामहे वयमाह्वयामः ॥ १२ ॥