श्रवणम्

6.19.2
इन्द्र᳚मे॒व धि॒षणा᳚ सा॒तये᳚ धाद्बृ॒हन्त᳚मृ॒ष्वम॒जरं॒ युवा᳚नम् ।
अषा᳚ळ्हेन॒ शव᳚सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्यो वा᳚वृ॒धे असा᳚मि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । ए॒व । धि॒षणा᳚ । सा॒तये᳚ । धा॒त् । बृ॒हन्त᳚म् । ऋ॒ष्वम् । अ॒जर᳚म् । युवा᳚नम् ।
अषा᳚ळ्हेन । शव᳚सा । शू॒शु॒॑वांस᳚म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा᳚मि ॥
▶ सायणभाष्यम् (Sayana Commentary)

धिषणा अस्मदीयास्तुतिः सातये दानाय इन्द्रमेवधात् धारयति कीदृशं बृहन्तं महान्तं ऋष्वं गन्तारं अजरं जरारहितं युवानं नित्यत- रुणं अषाह्ळेन शत्रुभिरनभिभूतेन शवसा बलेन शूशुवांसं प्रवृद्धं श्वयतेरिदंरूपं यइन्द्रः सद्यश्चित् सद्यएवजातमात्रःसन् असामि अनल्पं अधिकंयथाभवतितथा ववृधे वर्धते ॥ २ ॥