श्रवणम्

6.19.4
तं व॒ इन्द्रं᳚ च॒तिन᳚मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम ।
यथा᳚ चि॒त्पूर्वे᳚ जरि॒तार᳚ आ॒सुरने᳚द्या अनव॒द्या अरि᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । इन्द्र᳚म् । च॒तिन᳚म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒॑यन्तः᳚ । हु॒वे॒म॒ ।
यथा᳚ । चि॒त् । पूर्वे᳚ । ज॒रि॒तारः᳚ । आ॒सुः । अने᳚द्याः । अ॒न॒व॒द्याः । अरि᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नूनमद्य इहास्मिन्यज्ञे वाजयन्तः अन्नमिच्छन्तोवयं स्तोतारः शाकैः शक्तैः समर्थैः अस्य तवसहायैर्मरुद्भिः सहितं चतिनं शत्रूणांचा- तकं नाशकमित्यर्थः हेइन्द्र परमेश्वरं तंवः प्रसिद्धंत्वां हुवेम स्तुमः यथाचिद्यथैव पूर्वे पुरातनाः जरितारः स्तोतारः अनेद्याः अनिंद्याः अनवद्याः पापरहिताः अरिष्टाः अहिंसिताश्च आसुः बभूवुः हेइन्द्र त्वत्प्रसादाद्वयमपि तथैवभवेमेत्यर्थः ॥ ४ ॥