नृ॒वत्त᳚ इन्द्र॒ नृत᳚माभिरू॒ती वं᳚सी॒महि᳚ वा॒मं श्रोम᳚तेभिः ।
ईक्षे॒ हि वस्व᳚ उ॒भय᳚स्य राज॒न्धा रत्नं॒ महि᳚ स्थू॒रं बृ॒हन्त᳚म् ॥
ईक्षे॒ हि वस्व᳚ उ॒भय᳚स्य राज॒न्धा रत्नं॒ महि᳚ स्थू॒रं बृ॒हन्त᳚म् ॥
पदपाठः (Word-by-word)
नृ॒॑वत् । ते॒ । इ॒न्द्र॒ । नृ॑त᳚माभिः । ऊ॒ती । वं॒सी॒महि᳚ । वा॒मम् । श्रोम᳚तेभिः ।
ईक्षे᳚ । हि । वस्वः᳚ । उ॒भय᳚स्य । रा॒ज॒न् । धाः । रत्न᳚म् । महि᳚ । स्थू॒रम् । बृ॒हन्त᳚म् ॥
ईक्षे᳚ । हि । वस्वः᳚ । उ॒भय᳚स्य । रा॒ज॒न् । धाः । रत्न᳚म् । महि᳚ । स्थू॒रम् । बृ॒हन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
नृवत् मनुष्यैःपरिचारकजनैर्युक्तं श्रोमतेभिः श्रोतव्यैर्यशोभिः सहितं वामं वननीयंधनं हेइन्द्र ते त्वत्तः न्रुतमाभिः नेतृतमाभिः ऊती- ऊतिभीरक्षाभिः वंसीमहि वयंसंभजेमहि हियस्मात्कारणात् हेराजन् राजमानेन्द्र त्वं उभयस्य पार्थिवस्यदिव्यस्यच वस्वोधनस्य ईक्षे ईशिषे तस्मात् कारणात् महि महान्तं स्थूरं विपुलं बृहन्तं गुणैः परिवृढं रत्नं रमणीयं धनं अत्ररत्नशब्दःपुल्लिंगः धाः धेहि ॥ १० ॥