श्रवणम्

6.19.9 समानपद
आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद᳚ध॒रादा पु॒रस्ता᳚त् ।
आ वि॒श्वतो᳚ अ॒भि समे᳚त्व॒र्वाङिन्द्र᳚ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । शुष्मः᳚ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता᳚त् ।
आ । वि॒श्वतः᳚ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र᳚ । द्यु॒म्नम् । स्वः᳚॑वत् । धे॒हि॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृषभः वर्षिता ते त्वदीयं शुष्मोबलं अर्वाङस्मदभिमुखःसन् पश्चात् पश्चिमभागात् एतु आगच्छतु उत्तरादुत्तरभागादागच्छतु अधरा दक्षिणाच्चएतु पुरस्तात् पूर्वभागाच्चगच्छतु विश्वतः सर्वस्माद्दिग्भागात् अभि अस्मानभिलक्ष्यआसमेतु सम्यगागच्छतु हेइन्द्र त्वं स्वर्वत् सुखयुक्तं द्युम्नं धनं अस्मे अस्मभ्यं धेहि प्रयच्छ ॥ ९ ॥