श्रवणम्

6.19.5
धृ॒तव्र᳚तो धन॒दाः सोम᳚वृद्ध॒ः स हि वा॒मस्य॒ वसु᳚नः पुरु॒क्षुः ।
सं ज᳚ग्मिरे प॒थ्या॒३॒᳚ रायो᳚ अस्मिन्त्समु॒द्रे न सिन्ध᳚वो॒ याद᳚मानाः ॥
▶ पदपाठः (Word-by-word)
धृ॒त॑व्र᳚तः । ध॒न॒॑दाः । सोम᳚॑वृद्धः । सः । हि । वा॒मस्य᳚ । वसु᳚नः । पु॒रु॒॑क्षुः ।
सम् । ज॒ग्मि॒रे॒ । प॒थ्याः᳚ । रायः᳚ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध᳚वः । याद᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखल्विन्द्रः धृतव्रतोधनकर्मा धनदाः सएवधनप्रदः कीदृशस्यधनस्येत्याकांक्षायां उपसर्जनीभूतस्यापिधन्स्यविशेषणे वामस्य वसुनइति वामस्य वननीयस्य वसुनः श्रेष्ठस्य यद्वा वसुनोधनस्यस्वामीतिशेषः सोमवृद्धः सएवसोमेप्रवृद्धः पुरुक्षुः बह्वन्नः सएव अस्मि- न्निन्द्रएव पथ्याः स्तोतॄणांहितानि रायोधनानि संजग्मिरे संगच्छन्ते तत्रदृष्ठान्तः—सिन्धवोनद्यः समुद्रेन यथासमुद्रे यादमानाअभिगच्छ- न्तः तद्वत् ॥ ५ ॥