षष्ठं मण्डलम् - सूक्तम् 40

5 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.40 - सम्पूर्णम्

1 / 5
ऋक्: 6.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.40.1 समानपद
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव᳚ स्य॒ हरी॒ वि मु᳚चा॒ सखा᳚या ।
उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय᳚ गृण॒ते वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । पिब᳚ । तुभ्य᳚म् । सु॒तः । मदा᳚य । अव᳚ । स्य॒ । हरी॒ इति᳚ । वि । मु॒च॒ । सखा᳚या ।
उ॒त । प्र । गा॒य॒ । ग॒णे । आ । नि॒॑सद्य᳚ । अथ᳚ । य॒ज्ञाय᳚ । गृ॒ण॒ते । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तं सोमं पिब यः सोमस्तुभ्यं मदाय मदार्थं सुतोभिषुतः यतस्त्वयासोमः यातव्यः अतःकारणात् सखाया समानख्यानौ मित्रभू- तौवा हरी अश्वौ अवस्य अवस्थापय तदनन्तरं विमुच रथाद्विमुंच उतापिचगणे अस्मत् स्तोतृसंघे आ आभिमुख्येन निषद्योपविश्य प्रगा- यअस्मा भिःकृतंस्तोत्रमुपश्लोकय अथानन्तरं यज्ञाय यजमानाय गृणते स्तुवते वयोन्नंधाः देहि ॥ १ ॥

6.40.2
अस्य᳚ पिब॒ यस्य᳚ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒ अपि᳚बो विरप्शिन् ।
तमु᳚ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम᳚ह्यन्पी॒तये॒ सम᳚स्मै ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । पि॒ब॒ । यस्य᳚ । ज॒ज्ञा॒नः । इ॒न्द्र॒ । मदा᳚य । क्रत्वे᳚ । अपि᳚बः । वि॒॑र॒प्शि॒न् ।
तम् । ऊं॒ इति᳚ । ते॒ । गावः᳚ । नरः᳚ । आपः᳚ । अद्रिः᳚ । इन्दु᳚म् । सम् । अ॒ह्य॒न् । पी॒तये᳚ । सम् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अस्यइमंसोमंपिब हे विरप्शिन् महन् जज्ञानोजायमानएवत्वंयस्ययंसोमंअपिबः पूर्वं पीतवानसि किमर्थं मदायहर्षाय क्रत्वेकर्म- णे वृत्रवधादिलक्षणंवीर्यकर्मकर्तुंच तमुतादृशमेवेन्दुंसो मंगावःगाविभवाः श्रपणसाधनाःक्षीरादयःनरोनेतारोध्वर्यवःआपोवसतीवर्याख्याः अद्रिरभिषवार्थोग्रावाएतेसर्वे अस्मैअस्येन्द्रस्यतेतवपीतयेपानार्थं समह्यन् समगमयन् हिगतावित्यस्यैतद्रूपं पुनःसमितिपूरकः ॥ २ ॥

6.40.3
समि᳚द्धे अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर᳚यो॒ वहि᳚ष्ठाः ।
त्वा॒य॒ता मन᳚सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय᳚ म॒हे नः᳚ ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे᳚ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर᳚यः । वहि᳚ष्ठाः ।
त्वा॒॑य॒ता । मन᳚सा । जो॒ह॒वी॒मि॒ । इन्द्र᳚ । आ । या॒हि॒ । सु॒वि॒ताय᳚ । म॒हे । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नौसमिद्धेसम्यगिन्धनैः दीप्ते सोमेसुते अभिषुतेसति हेइन्द्र त्वात्वांवहिष्ठाः वोढृतमाः हरयोश्वाःआवहन्तु इमंयज्ञंप्रत्यानयन्तु अहं- चत्वायता त्वांकामयमानेनमनसाजोहवीमि पुनः पुनराह्वयामि हेइन्द्र त्वंनोस्माकंमहेमहते सुवितायकल्याणाय आयाहिआगच्छ ॥ ३ ॥

6.40.4
आ या᳚हि॒ शश्व᳚दुश॒ता य᳚या॒थेन्द्र᳚ म॒हा मन᳚सा सोम॒पेय᳚म् ।
उप॒ ब्रह्मा᳚णि शृणव इ॒मा नो॑था᳚ ते य॒ज्ञस्त॒न्वे॒३॒᳚ वयो᳚ धात् ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । शश्व᳚त् । उ॒श॒ता । य॒या॒थ॒ । इन्द्र᳚ । म॒हा । मन᳚सा । सो॒म॒॑पेय᳚म् ।
उप᳚ । ब्रह्मा᳚णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ । अथ᳚ । ते॒ । य॒ज्ञः । त॒न्वे᳚ । वयः᳚ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पुराशश्वद्बहुकृत्वोययाथ सोमपानार्थंयज्ञंगतवानसि अतःकारणात् उशताअस्मान्कामयमानेन महामहतामनसासह सोमपेयंसो- मःपीयतेयस्मिन् तादृशमस्मदीयंयज्ञं आयाहिअभिगच्छ आगत्यच ब्रह्माणिस्तोत्राणि इमाइदानींप्रयुज्यमानानि नोस्मदीयानिउपश्रृणवः उमश्रृणु अथानन्तरं यज्ञोयजमानस्तेतवतन्वेशरीरायत्वच्छरीरपोषार्थं वयोन्नंसोमात्मकंधात् ददातु ॥ ४ ॥

6.40.5
यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद᳚ने॒ यत्र॒ वासि᳚ ।
अतो᳚ नो य॒ज्ञमव᳚से नि॒युत्वा᳚न्त्स॒जोषा᳚ः पाहि गिर्वणो म॒रुद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । दि॒वि । पार्ये᳚ । यत् । ऋध᳚क् । यत् । वा॒ । स्वे । सद᳚ने । यत्र᳚ । वा॒ । असि᳚ ।
अतः᳚ । नः॒ । य॒ज्ञम् । अव᳚से । नि॒युत्वा᳚न् । स॒॑जोषाः᳚ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पार्येपारगेदूरदेशे दिविद्युलोकाख्ये यद्यदित्वंवर्तसे यदिवा ऋधक् एतत् पृथक् शब्देनसमानार्थं पृथगन्यस्मिन्देशेवर्तसे यद्वा स्वेस्वकीयेसदनेगृहे अथवा किमनेनविशेषणेन यत्रयस्मिन्देशेअसिभवसि अतोस्मात् स्थानादागत्यहेगिर्वणः गिरांसंभक्तरिन्द्र नियुत्वान्- नियुतोश्वाःतद्वान् मरुद्भिःसजोषाः सहप्रीयमाणस्त्वं नोस्माकमवसेरक्षणाययज्ञमस्मदीयंयागंपाहिरक्ष यद्वा यज्ञंयजमानसाधनंअस्मदीयं- सोमं अवसेतर्पणायपाहि पिब ॥ ५ ॥

अहेळमानइतिपंचर्चमष्टादशंसूक्तंभरद्वाजस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रान्तंच—अहेळमानइति । गतोविनियोगः ।