श्रवणम्

6.40.1 समानपद
इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव᳚ स्य॒ हरी॒ वि मु᳚चा॒ सखा᳚या ।
उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय᳚ गृण॒ते वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । पिब᳚ । तुभ्य᳚म् । सु॒तः । मदा᳚य । अव᳚ । स्य॒ । हरी॒ इति᳚ । वि । मु॒च॒ । सखा᳚या ।
उ॒त । प्र । गा॒य॒ । ग॒णे । आ । नि॒॑सद्य᳚ । अथ᳚ । य॒ज्ञाय᳚ । गृ॒ण॒ते । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तं सोमं पिब यः सोमस्तुभ्यं मदाय मदार्थं सुतोभिषुतः यतस्त्वयासोमः यातव्यः अतःकारणात् सखाया समानख्यानौ मित्रभू- तौवा हरी अश्वौ अवस्य अवस्थापय तदनन्तरं विमुच रथाद्विमुंच उतापिचगणे अस्मत् स्तोतृसंघे आ आभिमुख्येन निषद्योपविश्य प्रगा- यअस्मा भिःकृतंस्तोत्रमुपश्लोकय अथानन्तरं यज्ञाय यजमानाय गृणते स्तुवते वयोन्नंधाः देहि ॥ १ ॥