श्रवणम्

6.40.5
यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद᳚ने॒ यत्र॒ वासि᳚ ।
अतो᳚ नो य॒ज्ञमव᳚से नि॒युत्वा᳚न्त्स॒जोषा᳚ः पाहि गिर्वणो म॒रुद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । दि॒वि । पार्ये᳚ । यत् । ऋध᳚क् । यत् । वा॒ । स्वे । सद᳚ने । यत्र᳚ । वा॒ । असि᳚ ।
अतः᳚ । नः॒ । य॒ज्ञम् । अव᳚से । नि॒युत्वा᳚न् । स॒॑जोषाः᳚ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पार्येपारगेदूरदेशे दिविद्युलोकाख्ये यद्यदित्वंवर्तसे यदिवा ऋधक् एतत् पृथक् शब्देनसमानार्थं पृथगन्यस्मिन्देशेवर्तसे यद्वा स्वेस्वकीयेसदनेगृहे अथवा किमनेनविशेषणेन यत्रयस्मिन्देशेअसिभवसि अतोस्मात् स्थानादागत्यहेगिर्वणः गिरांसंभक्तरिन्द्र नियुत्वान्- नियुतोश्वाःतद्वान् मरुद्भिःसजोषाः सहप्रीयमाणस्त्वं नोस्माकमवसेरक्षणाययज्ञमस्मदीयंयागंपाहिरक्ष यद्वा यज्ञंयजमानसाधनंअस्मदीयं- सोमं अवसेतर्पणायपाहि पिब ॥ ५ ॥

अहेळमानइतिपंचर्चमष्टादशंसूक्तंभरद्वाजस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रान्तंच—अहेळमानइति । गतोविनियोगः ।