श्रवणम्

6.28.1
आ गावो᳚ अग्मन्नु॒त भ॒द्रम᳚क्र॒न्त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे ।
प्र॒जाव᳚तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ॥
▶ पदपाठः (Word-by-word)
आ । गावः᳚ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद᳚न्तु । गो॒॑स्थे । र॒णय᳚न्तु । अ॒स्मे इति᳚ ।
प्र॒जा॑व᳚तीः । पु॒रु॒॑रूपाः᳚ । इ॒ह । स्युः॒ । इन्द्रा᳚य । पू॒र्वीः । उ॒षसः᳚ । दुहा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गावः आअग्मन् अस्मदीयंगृहंआगच्छन्तु उतापिच भद्रं भजनीयं शुभं अक्रन् कुर्वन्तु तथा गोष्ठे अस्मदीयेगवांस्थाने सीदन्तूपविशन्तु तदनन्तरं अस्मे अस्मासु रणयन्तु रमन्तां अपिच इहास्मिन् गोष्ठे पुरुरूपानानावर्णागावःप्रजावतीः प्रजावत्यः सन्ततिसहिताः स्युर्भवे- युः इन्द्रायेन्द्रार्थं पूर्वीर्बह्वीः उषसोदिवसान् सर्वेषुदिवसेषुइत्यर्थः दुहानाः क्षीरंदोहमानाभवेयुः ॥ १ ॥