त्विषी᳚मन्तो अध्व॒रस्ये᳚व दि॒द्युत्तृ᳚षु॒च्यव᳚सो जु॒ह्वो॒३॒᳚ नाग्नेः ।
अ॒र्चत्र᳚यो॒ धुन᳚यो॒ न वी॒रा भ्राज᳚ज्जन्मानो म॒रुतो॒ अधृ᳚ष्टाः ॥
अ॒र्चत्र᳚यो॒ धुन᳚यो॒ न वी॒रा भ्राज᳚ज्जन्मानो म॒रुतो॒ अधृ᳚ष्टाः ॥
पदपाठः (Word-by-word)
त्विषि᳚॑मन्तः । अ॒ध्व॒रस्य᳚॑इव । दि॒द्युत् । तृ॒षु॒॑च्यव᳚सः । जु॒ह्वः᳚ । न । अ॒ग्नेः ।
अ॒र्चत्र᳚यः । धुन᳚यः । न । वी॒राः । भ्राज᳚त्॑जन्मानः । म॒रुतः᳚ । अधृ᳚ष्टाः ॥
अ॒र्चत्र᳚यः । धुन᳚यः । न । वी॒राः । भ्राज᳚त्॑जन्मानः । म॒रुतः᳚ । अधृ᳚ष्टाः ॥
सायणभाष्यम् (Sayana Commentary)
मरुतः अध्वरस्येव यज्ञस्येव दिद्युत् द्योतमानाः तृषुच्यवसः क्षिप्रगमनाः अग्नेः जुह्वो न रश्मय इव त्विषीमन्तो दीप्तिमन्तः अर्चत्रयोर्च- नीयाः धुनयो न सपत्नान् कंपयन्त इव वीराः शूराः भ्राजज्जन्मानः दीप्तशरीराः अधृष्टाः परैरनभिभूताश्च भवन्ति ॥ १० ॥