श्रवणम्

6.66.4 समानपद
न य ईष᳚न्ते ज॒नुषो॑या॒ न्व१॒᳚न्तः सन्तो᳚॑व॒द्यानि᳚ पुना॒नाः ।
निर्यद्दु॒ह्रे शुच॒यो॑नु॒ जोष॒मनु᳚ श्रि॒या त॒न्व᳚मु॒क्षमा᳚णाः ॥
▶ पदपाठः (Word-by-word)
न । ये । ईष᳚न्ते । ज॒नुषः᳚ । अया᳚ । नु । अ॒न्तरिति᳚ । सन्तः᳚ । अ॒व॒द्यानि᳚ । पु॒ना॒नाः ।
निः । यत् । दु॒ह्रे । शुच᳚यः । अनु᳚ । जोष᳚म् । अनु᳚ । श्रि॒या । त॒न्व᳚म् । उ॒क्षमा᳚णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये प्रसिद्धा मरुतः जनुषो जनान् स्तोतॄन् प्रति अया अयेन मनसा धनेन नेषन्ते नगच्छन्ति । किं तेषां रक्षणीयत्वाभावाद्गमनाभावः नेत्याह अन्तः सन्तः सर्वेषा हृदि वर्तमानाएव अवद्यानि पापानि पुनानाः शोधयन्तः तथा च निगमान्तरं-प्राणावैमरुतःस्वापयइति । अतः सर्वप्राणिनां हृदि वर्तमानानां तेषां गमनं नास्तीति अध्यात्मं प्राणरूपेणावस्थानं दर्शितं भवति । शीघ्रगामित्वं तु तेषामाधिदैव- तरूपेणेति द्रष्टव्यं यद्यदा शुचयो दीप्यमाना मरुतः जोषमनु स्तोतॄणां काममनु निदुह्रे नितरां दुहंत्युदकं तथा श्रिया दीप्त्या अनु अनुग- तास्तन्वं आत्मीयं शरीरं प्रकाशयन्तः उक्षमाणाः भूमिं सिंचन्तो भवन्ति । यद्वा तन्वं विस्तीर्णं यथा भवति तथोक्षमाणा भूमिं सिंचन्तो भवन्तीत्यर्थः ॥ ४ ॥