श्रवणम्

6.34.3
न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः ।
यदि᳚ स्तो॒तारः᳚ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व᳚णसं॒ शं तद᳚स्मै ॥
▶ पदपाठः (Word-by-word)
न । यम् । हिंस᳚न्ति । धी॒तयः᳚ । न । वाणीः᳚ । इन्द्र᳚म् । नक्ष᳚न्ति । इत् । अ॒भि । व॒र्धय᳚न्तीः ।
यदि᳚ । स्तो॒तारः᳚ । श॒तम् । यत् । स॒हस्र᳚म् । गृ॒णन्ति᳚ । गिर्व᳚णसम् । शम् । तत् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंइन्द्रं धीतयः कर्माणि परिचरणानि नहिंसन्ति नबाधन्ते वाणीर्वाण्यः स्तुतयश्चयन्नबाधन्ते दातुमसमर्थःपुरुषः अन्यकृतैःपरिचरणैः स्तुतिभिश्च भृशंखिद्यते अस्यचेन्द्रस्य बहुधनत्वाद्दातृत्वाच्च तस्मिन्प्रयुज्यमानानिपरिचरणानिस्तोत्राणिच बाधहेतवोनाभूवन्नित्यर्थः किं- तर्हीत्यतआह तमिन्द्रं वर्धयन्तीः वर्धयंत्यः अभिनक्षन्तिइत् अभिगच्छन्तिएव अपिच गिर्वणसंगिरांसंभक्तारमिन्द्रं शतं शतसंख्याकाःस्तो- तारोयदि गृणन्ति स्तुवन्ति यत् यदिच सहस्रं सहस्रसंख्याकाःस्तोतारः स्तुवन्ति तत्सर्वंस्तोत्रं अस्माइन्द्राय शं सुखकरंभवति ॥ ३ ॥