श्रवणम्

6.34.5 समानपद
अस्मा᳚ ए॒तन्मह्या᳚ङ्गू॒षम᳚स्मा॒ इन्द्रा᳚य स्तो॒त्रं म॒तिभि᳚रवाचि ।
अस॒द्यथा᳚ मह॒ति वृ᳚त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु᳚रवि॒ता वृ॒धश्च᳚ ॥
▶ पदपाठः (Word-by-word)
अस्मै᳚ । ए॒तत् । महि᳚ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा᳚य । स्तो॒त्रम् । म॒ति॑भिः᳚ । अ॒वा॒चि॒ ।
अस᳚त् । यथा᳚ । म॒ह॒ति । वृ॒त्र॒॑तूर्ये᳚ । इन्द्रः᳚ । वि॒श्व॑आ᳚युः । अ॒वि॒ता । वृ॒धः । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मैइन्द्राय महि महत् एतत् आंगूषं स्तोत्रं मतिभिः स्तोतृभिरवाचि उक्तमभूत् अस्मैइंद्राय स्तोत्रमितिपुनरुक्तिरादरार्था विश्वायुः सर्वत्रगन्ता सइन्द्रः महति प्रभूते वृत्रतूर्ये संग्रामे यथा येनप्रकारेण अस्माकं अविता रक्षकःवृधोवर्धयिताच असद्भवेत् तथा अवाचीत्यन्व- यः ॥ ५ ॥

कदाभुवन्नितिपंचर्चंद्वादशंसूक्तं नरस्यार्षंत्रैष्टुभमैन्द्रं तथाचानुक्रान्तं—कदानरस्त्विति । तृतीयेछन्दोमेमहाव्रतेचनिष्केवल्येउक्तोविनि- योगः ।