श्रवणम्

6.34.4
अस्मा᳚ ए॒तद्दि॒व्य१॒᳚र्चेव᳚ मा॒सा मि᳚मि॒क्ष इन्द्रे॒ न्य᳚यामि॒ सोमः᳚ ।
जनं॒ न धन्व᳚न्न॒भि सं यदापः᳚ स॒त्रा वा᳚वृधु॒र्हव᳚नानि य॒ज्ञैः ॥
▶ पदपाठः (Word-by-word)
अस्मै᳚ । ए॒तत् । दि॒वि । अ॒र्चा॑इ᳚व । मा॒सा । मि॒मि॒क्षः । इन्द्रे᳚ । नि । अ॒या॒मि॒ । सोमः᳚ ।
जन᳚म् । न । धन्व᳚न् । अ॒भि । सम् । यत् । आपः᳚ । स॒त्रा । व॒वृ॒धुः॒ । हव᳚नानि । य॒ज्ञैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतत् एतस्मिन् दिवि दिवसे सौत्येहनि अर्चेव अर्चनसाधनेन स्तोत्रेणेव मासा मानेन इन्द्रायत्वावृत्रघ्नइत्यादिमंत्रसाध्येनयुक्तः मि- मिक्षः वसतीवर्येकधनाख्याभिरद्भिरासिक्तःसोमः अस्मै विभक्तिव्यत्ययः अस्मिन्निन्द्रे न्ययामि नियतोभूत् यद्वा अस्मैइन्द्राय एतत्स्तोत्रं- ब्रवाणीतिशेषः दिविद्युलोके अर्चेव अर्कःसूर्यइव मासा लुप्तोपममेतत् माति परिच्छिनत्तीतिमासश्चन्द्रमाः सइव मिमिक्षोः वृष्ट्युदकानां- सेक्ता यइन्द्रोवर्तते यस्मिन्निन्द्रे अभिषुतः सोमेनियम्यतेस्म किंच तमिन्द्रं यज्ञैर्यजनसाधनैः पुरोडाशादिभिर्हविर्भिःसार्धं हवनानि स्तोत्रा- णि सत्रासह वावृधुरवर्धयन् तत्रदृष्टान्तः—धन्वन् धन्वनि मरुदेशे अभि अभिमुखं संयत् सम्यग्यत्योगच्छंत्यआपः जनंन प्राणिनमिव यथा मरुदेशे उपलभ्यमानाआपः प्राणिनंवर्धयन्तितद्वत् ॥ ४ ॥