पु॒रु॒हू॒तो यः पु᳚रुगू॒र्त ऋभ्वा{4}॒ एकः᳚ पुरुप्रश॒स्तो अस्ति᳚ य॒ज्ञैः ।
रथो॒ न म॒हे शव᳚से युजा॒नो॒३॒᳚॑स्माभि॒रिन्द्रो᳚ अनु॒माद्यो᳚ भूत् ॥
रथो॒ न म॒हे शव᳚से युजा॒नो॒३॒᳚॑स्माभि॒रिन्द्रो᳚ अनु॒माद्यो᳚ भूत् ॥
पदपाठः (Word-by-word)
पु॒रु॒॑हू॒तः । यः । पु॒रु॒॑गू॒र्तः । ऋभ्वा᳚ । एकः᳚ । पु॒रु॒॑प्र॒श॒स्तः । अस्ति᳚ । य॒ज्ञैः ।
रथः᳚ । न । म॒हे । शव᳚से । यु॒जा॒नः । अ॒स्माभिः᳚ । इन्द्रः᳚ । अ॒नु॒॑माद्यः᳚ । भू॒त् ॥
रथः᳚ । न । म॒हे । शव᳚से । यु॒जा॒नः । अ॒स्माभिः᳚ । इन्द्रः᳚ । अ॒नु॒॑माद्यः᳚ । भू॒त् ॥
सायणभाष्यम् (Sayana Commentary)
पुरुहूतः बहुभिराहूतः पुरुगूर्तःबहुभिरुद्यमितः ऋभ्वा महान् एकः प्रधानभूतः एवंगुणविशिष्टोयइन्द्रः यज्ञैः यष्टृभिःपुरुषैः यजमा- नसाधनैःस्तोत्रैर्वा पुरुप्रशस्तोस्ति बहुधाप्रशस्तस्तुतोभवति सइन्द्रः रथोन रथइव महे महते शवसे बलायतदर्थं युजानोस्म त्स्तुतिभिः युज्यमानःसन् अस्माभिःस्तोतृभिः अनुमाद्योभूत् सर्वदास्तुत्योभवत् ॥ २ ॥