श्रवणम्

6.41.2
या ते᳚ का॒कुत्सुकृ᳚ता॒ या वरि᳚ष्ठा॒ यया॒ शश्व॒त्पिब᳚सि॒ मध्व᳚ ऊ॒र्मिम् ।
तया᳚ पाहि॒ प्र ते᳚ अध्व॒र्युर᳚स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । का॒कुत् । सु॑कृ᳚ता । या । वरि᳚ष्ठा । यया᳚ । शश्व᳚त् । पिब᳚सि । मध्वः᳚ । ऊ॒र्मिम् ।
तया᳚ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः᳚ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र या ते तवकाकुज्जिह्वा सुकृतासुष्ठुधात्रानिर्मिता याच वरिष्ठाउरुतमाविस्तीर्णतमा ययाचमध्वोमधुनः सोमस्यऊर्मिंरसंशश्वद्ब- हुकृत्वः पिबसि तयाजिह्वयास्मदीयंसोमंपाहिपिब तदर्थमध्वर्युरध्वरस्यनेताऋत्विग्गृहीतसोमःसन् प्रास्थात् हविर्धानदुत्तरवेदिदेशंप्रत्य- गमत् अपिच हेइन्द्र गव्युःशत्रुसंबंधिनीर्गाः आत्मनइच्छन् तेत्वदीयोवज्रः संवर्ततां शत्रुभिःसंगतोभवतु तान्हंत्वित्यर्थः ॥ २ ॥