ए॒ष द्र॒प्सो वृ᳚ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम᳚कारि॒ सोमः᳚ ।
ए॒तं पि᳚ब हरिवः स्थातरुग्र॒ यस्येशि᳚षे प्र॒दिवि॒ यस्ते॒ अन्न᳚म् ॥
ए॒तं पि᳚ब हरिवः स्थातरुग्र॒ यस्येशि᳚षे प्र॒दिवि॒ यस्ते॒ अन्न᳚म् ॥
पदपाठः (Word-by-word)
ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्व॑रू᳚पः । इन्द्रा᳚य । वृष्णे᳚ । सम् । अ॒का॒रि॒ । सोमः᳚ ।
ए॒तम् । पि॒ब॒ । ह॒रि॒॑वः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य᳚ । ईशि᳚षे । प्र॒॑दिवि᳚ । यः । ते॒ । अन्न᳚म् ॥
ए॒तम् । पि॒ब॒ । ह॒रि॒॑वः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य᳚ । ईशि᳚षे । प्र॒॑दिवि᳚ । यः । ते॒ । अन्न᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
द्रप्सोद्रवणशीलोवृषभः कामानांवर्षिता विश्वरूपः बहुविधरूपोपेतः ईदृग्विधएषसोमः वृष्णेकामानांवर्षित्रेइंद्रायइन्द्रस्यपानार्थं स- मकारिअभिषवादिभिःसंस्कृतोभूत् हेहरिवः हरीअश्वौ तद्वन् हेस्थातः सर्वेषामधिष्ठातः उग्रउद्गूर्णबलेन्द्र एतमीदृशंसोमंपिब यस्यसोम- स्यप्रदिवि जातावेकवचनं प्रभूतेषुदिवसेषु प्रगतेष्वहःसुवा ईशिषे त्वमेवेश्वरोभवसि यश्चसोमस्ते तवअन्नंअन्नत्वेनपरिकल्पितः एतंपिबे- त्यन्वयः ॥ ३ ॥