श्रवणम्

6.74.1
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्यं१॒᳚ प्र वा᳚मि॒ष्टयो॑र᳚मश्नुवन्तु ।
दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
▶ पदपाठः (Word-by-word)
सोमा᳚रुद्रा । धा॒रये᳚थाम् । अ॒सु॒र्य᳚म् । प्र । वा॒म् । इ॒ष्टयः᳚ । अर᳚म् । अ॒श्नु॒व॒न्तु॒ ।
दमे᳚॑दमे । स॒प्त । रत्ना᳚ । दधा᳚ना । शम् । नः॒ । भू॒त॒म् । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमारुद्रा हे सोमारुद्रौ असुर्यं असुरसंबन्धिबलं अस्मासु धारयेथां किं च दमेदमे सर्वेष्वस्मद्गृहेषु इष्टयोयज्ञाः वां युवां अरमलं पर्याप्तं प्राश्नुवन्तु प्रकर्षेणव्याप्नुवन्तु । अपि च युवां सप्तरत्ना रत्नानि दधाना धारयन्तौ नोस्मभ्यं शं सुखकरौ सुखरूपौ वा भूतं भवतम् । द्विपदे अस्मदीयाय पुत्रादये चतुष्पदे पश्वादये च शं भूतं भवतं ॥ १ ॥