सोमा᳚रुद्रा॒ वि वृ᳚हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय᳚मावि॒वेश᳚ ।
आ॒रे बा᳚धेथां॒ निरृ᳚तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि᳚ सन्तु ॥
आ॒रे बा᳚धेथां॒ निरृ᳚तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि᳚ सन्तु ॥
पदपाठः (Word-by-word)
सोमा᳚रुद्रा । वि । वृ॒ह॒त॒म् । विषू᳚चीम् । अमी᳚वा । या । नः॒ । गय᳚म् । आ॒॑वि॒वेश᳚ ।
आ॒रे । बा॒धे॒था॒म् । निः॑ऋ᳚तिम् । प॒रा॒चैः । अ॒स्मे इति᳚ । भ॒द्रा । सौ॒श्र॒व॒सानि᳚ । स॒न्तु॒ ॥
आ॒रे । बा॒धे॒था॒म् । निः॑ऋ᳚तिम् । प॒रा॒चैः । अ॒स्मे इति᳚ । भ॒द्रा । सौ॒श्र॒व॒सानि᳚ । स॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
सोमारुद्रा हे सोमारुद्रौ नोस्माकं गयं गृहं गृहगतंप्राणिजातंवा याअमीवा योरोगआविवेश तांविषूचीं विष्वक् सर्वतो गच्छन्तीं अमीवां विवृहतं वियोजयतम् । अपि च निरृतिमलक्ष्मीं पराचैः पराग्यथाभवति तथा आरे दूरे बाधेथां निवारयतम् । अस्मे अस्माकं भद्रा भद्राणि सौश्रवसानि अन्नानि यशांसि च संतु भवन्तु सुश्रवसौभावः सौश्रवसं श्रवोन्नंयशश्र ॥ २ ॥