प्रो द्रोणे॒ हर᳚य॒ः कर्मा᳚ग्मन्पुना॒नास॒ ऋज्य᳚न्तो अभूवन् ।
इन्द्रो᳚ नो अ॒स्य पू॒र्व्यः प᳚पीयाद्द्यु॒क्षो मद᳚स्य सो॒म्यस्य॒ राजा᳚ ॥
इन्द्रो᳚ नो अ॒स्य पू॒र्व्यः प᳚पीयाद्द्यु॒क्षो मद᳚स्य सो॒म्यस्य॒ राजा᳚ ॥
पदपाठः (Word-by-word)
प्रो इति᳚ । द्रोणे᳚ । हर᳚यः । कर्म᳚ । अ॒ग्म॒न् । पु॒ना॒नासः᳚ । ऋज्य᳚न्तः । अ॒भू॒व॒न् ।
इन्द्रः᳚ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद᳚स्य । सो॒म्यस्य । राजा᳚ ॥
इन्द्रः᳚ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद᳚स्य । सो॒म्यस्य । राजा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हरयोहरितवर्णाः सोमाः कर्म अस्मदीयंयज्ञं प्रोअग्मन् प्रकर्षेणगच्छन्ति प्राप्नुवन्ति प्राप्यच पुनानासःद्रोणे द्रोणकलशे ऋज्यन्तःऋजु- गच्छन्तः अभूवन् भवन्ति पूर्व्यः पुरातनः द्युक्षोदीप्तेर्निवासभूतः द्युस्थानोवा मदस्य मदकरस्य सोम्यस्य सोमस्य राजा ईश्वरः एवंभूत- इन्द्रश्च अस्य इमं स्तोमं पपीयात् पिबतु ॥ २ ॥