स्वा॒दुष्किला॒यं मधु᳚मा{4} उ॒तायं ती॒व्रः किला॒यं रस᳚वा{4} उ॒तायम् ।
उ॒तो न्व१॒᳚स्य प᳚पि॒वांस॒मिन्द्रं॒ न कश्च॒न स᳚हत आह॒वेषु᳚ ॥
उ॒तो न्व१॒᳚स्य प᳚पि॒वांस॒मिन्द्रं॒ न कश्च॒न स᳚हत आह॒वेषु᳚ ॥
पदपाठः (Word-by-word)
स्वा॒दुः । किल᳚ । अ॒यम् । मधु᳚॑मान् । उ॒त । अ॒यम् । ती॒व्रः । किल᳚ । अ॒यम् । रस᳚॑वान् । उ॒त । अ॒यम् ।
उ॒तो इति᳚ । नु । अ॒स्य । प॒पि॒॑वांस᳚म् । इन्द्र᳚म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒॑ह॒वेषु᳚ ॥
उ॒तो इति᳚ । नु । अ॒स्य । प॒पि॒॑वांस᳚म् । इन्द्र᳚म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒॑ह॒वेषु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयंअभिषुतः सोमः स्वादुरास्वादनीयःकिलभवति उतापिच मधुमान् माधुर्यवांश्चायंसोमोभवति तथायंसोमः तीव्रः किल् मदोत्पा- दनेतीक्षणःखलुभवति उतापिच अयंसोमोरसवान् सारवांश्चभवति अनेनवाक्यचतुष्टयेनसोमस्यमाधुर्यातिशयत्वंचप्रतिपादितं उतोअपि- च अस्यसोमस्य द्वितीयार्थेषष्ठी इमंसोमंपपिवांसंपीतवन्तमिन्द्रं आहवेषुसंग्रामेषुनकश्चननकोपिसहते अभिभवति नुइतिपूरकः ॥ १ ॥