श्रवणम्

6.47.5
अ॒यं वि᳚दच्चित्र॒दृशी᳚क॒मर्ण᳚ः शु॒क्रस᳚द्मनामु॒षसा॒मनी᳚के ।
अ॒यं म॒हान्म᳚ह॒ता स्कम्भ᳚ने॒नोद्द्याम᳚स्तभ्नाद्वृष॒भो म॒रुत्वा᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वि॒द॒त् । चि॒त्र॒॑दृशी᳚कम् । अर्णः᳚ । शु॒क्र॑स᳚द्मनाम् । उ॒षसा᳚म् । अनी᳚के ।
अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ᳚नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमंसोमः चित्रदृशीकंविचित्रदर्शनं यद्वा आश्चर्यत्वेनदर्शनीयं अर्णःसर्वस्यप्रेरकं सौरं ज्योतिःविदत् लंभयति कस्मिन्काले शुक्रसद्मनां- शुक्रंनिर्मलमन्तरिक्षंसद्मसदनंयासांतासामुषसां अनीकेप्रमुखेउषःकालइत्यर्थः अपिच महान्प्रवृद्धोयंसोमः महतास्थविष्ठेनस्कंभनेन स्तंभ- नसाधनेनमध्यवर्तिनान्तरिक्षेणद्यांद्युलोकंउदस्तभ्नात् ऊर्ध्वमस्थापयत् यथाअधोनपततितथाअन्तरिक्षंतस्याधारत्वेनकृतवानित्यर्थः कीदृशःसोमः वृषभोवृष्टेर्जनयिता सोमाहुत्याहिवृष्टिर्जन्यतेम रुत्वान्मरुद्भिर्युक्तः ॥ ५ ॥